भारतीयस्वतंत्रतान्दोलने नेताजीसुभाषचन्द्रबोसस्य योगदानम्
डॉ विमलेश झा, डीएवी पब्लिक स्कूल बरारी,भागलपुर बिहार
भारतस्य स्वतंत्रतासंग्रामः केवलं राजनैतिकः संघर्षः न आसीत्, अपि तु अस्य स्वरूपं सामाजिकं, सांस्कृतिकं, वैचारिकं च आसीत्। अस्मिन् महायज्ञे असंख्याः देशभक्ताः स्वजीवनं राष्ट्रसेवायै समर्पितवन्तः। तेषु नेताजीसुभाषचन्द्रबोसमहाभाग: एकः अद्वितीयः, विशिष्टः,क्रान्तिकारी नायकः च आसीत्। एषः स्वतंत्रतायाः प्राप्ति: केवलं अहिंसया न, अपि तु सशस्त्रसंघर्षेण, संगठनशक्त्या, आत्मबलिदानेन च साधनीया इति मन्यते स्म। तस्य सम्पूर्णं जीवनं भारतमातुः स्वतन्त्रतायै समर्पितम् आसीत्।
नेताजीसुभाषचन्द्रबोसः १८९७ तमे वर्षे जनवरीमासस्य त्रयोविंशतितमे दिने ओडिशाराज्यस्य कटकनगरे जन्म अलभत। एतस्य पिता जानकीनाथबोसः सुप्रसिद्धः अधिवक्ता आसीत्, माता प्रभावतीदेवी धार्मिकस्वभावा, संस्कारसम्पन्ना च आसीत्। मातृपितृसंस्कारैः सुभाषः बाल्यकालादेव सत्यनिष्ठः, अनुशासनप्रियः, राष्ट्रभक्तः च अभवत्। देशसेवा एव एतस्य जीवनलक्ष्यं जातम्। बाल्यावस्थायामेव एषः तीक्ष्णबुद्धियुक्तः, आत्मसम्मानयुक्तः, निर्भीकः च आसीत्। अयं कटकनगरे प्रारम्भिकशिक्षां प्राप्तवान्। तदनन्तरं कलकत्तानगरं गत्वा प्रेसिडेन्सीकॉलेजमध्ये अध्ययनं कृतवान्। तत्र ब्रिटिशप्राध्यापकस्य भारतीयछात्रान् प्रति अवमाननापूर्णव्यवहारं दृष्ट्वा एषः साहसपूर्वकं विरोधं कृतवान्। अस्मात् कारणात् एषः ततः निष्कासितः अभवत्। एषा घटना तस्य अन्यायविरोधीस्वभावस्य प्रथमं स्पष्टं प्रमाणम् आसीत्।तत्पश्चात् एषः स्कॉटिशचर्चमहाविद्यालये अध्ययनं कृत्वा दर्शनशास्त्रे विशेषरुचिं दर्शितवान्। वेदान्तदर्शनं, गीता, उपनिषदः च एतस्य चिन्तने गम्भीरतां समाविष्टवन्त:। उच्चशिक्षार्थं अयं इंग्लैण्डदेशं गतः। केम्ब्रिजविश्वविद्यालये अध्ययनं कृत्वा एषः भारतीयसिविलसेवापरीक्षायां उत्कृष्टं स्थानं प्राप्तवान्। सिविलसेवा एतस्मै उज्ज्वलं भविष्यं दातुं शक्नोति स्म, तथापि एषः ब्रिटिशशासनस्य अधीनत्वेन कार्यं कर्तुं न इच्छति स्म। राष्ट्रसेवा एव एतस्य जीवनस्य परमं लक्ष्यम् आसीत्। अतः सः स्वेच्छया सिविलसेवां परित्यज्य भारतं प्रत्यागतः। एषः त्यागः एतस्य राष्ट्रप्रेम्ण: अद्वितीयम् उदाहरणम् अस्ति। एषः
भारतीयराष्ट्रियकांग्रेसदलस्य सक्रियः सदस्यः अभवत्। महात्मागान्धिनः नेतृत्वे एष: प्रारम्भिककाले कार्यं कृतवान्। चित्तरंजनदासः एतस्य राजनैतिकगुरुः आसीत्। दासमहोदयस्य सान्निध्ये अयं प्रशासनकौशलस्य, जनसेवाभावनायाः, संगठनक्षमताया: च विकासे स्वयोगदानम् अयच्छत्।
ब्रिटिशसर्वकारः सुभाषचन्द्रबोसस्य उग्रराष्ट्रवादीविचारान् असहिष्णुतादृष्ट्या पश्यन् एतं पुनःपुनः कारागारदण्डेन दण्डितवान् । दीर्घकालं यावत् कारागृहे स्थितः सन् अपि सः शारीरिककष्टैः विचलितो न अभवत्। कारागारे एषः निरन्तरं अध्ययनं, चिन्तनं, लेखनं च अकरोत्। राष्ट्रस्य भविष्यविषये एतस्य चिन्तनं अधिकं सुदृढं, परिपक्वं च अभवत्।
1938तमे वर्षे हरिपुरनगरे आयोजिते कांग्रेसदलस्य अधिवेशने अयं अध्यक्षपदे निर्वाचितः जातः। एतस्य अध्यक्षतायां औद्योगिकीकरणं, योजनाबद्धविकासः, स्वावलम्बनं च मुख्यविषयाः आसन्।1939 तमे वर्षे कांग्रेसदलस्य त्रिपुराराज्यस्य अधिवेशने अयं पुनः अध्यक्षः निर्वाचितः अभवत्। परन्तु एतस्य क्रान्तिकारीविचार: महात्मागान्धिनः अहिंसावादीनीतिभिः सह समन्वितः न आसीत्। अयं मन्यते स्म यत् ब्रिटिशसाम्राज्यं केवलं सशक्तप्रतिरोधेन एव भारतदेशं त्यक्ष्यति। एतेषां मतभेदानां परिणामस्वरूपं एष: कांग्रेसदलं त्यक्त्वा “फ़ॉरवर्डब्लॉक” इति नूतनराजनैतिकदलस्य स्थापनां कृतवान् ।
ब्रिटिशसर्वकारेण सुभाषचन्द्रबोसमहोदय: पुनः कारागारे स्थापित:। तथापि 1941तमे वर्षे अयं अद्भुतसाहसेन आरक्षकव्यूहस्य भेदनं कृत्वा गुप्तरूपेण भारतदेशात् पलायितवान्। अफगानिस्तानमार्गेण एषः जर्मनीदेशं गतः। एषा घटना भारतीयस्वतंत्रतासंग्रामस्य इतिहासे अतीव प्रसिद्धा अस्ति। जर्मनीदेशात् जापानदेशं गत्वा सुभाषचन्द्रबोसः भारतस्य स्वतंत्रतायै अन्तरराष्ट्रियसमर्थनं संगृहीतवान्। एषः विदेशेषु प्रवासीभारतीयानां हृदयेषु राष्ट्रप्रेम्ण: अग्निं प्रज्वालितवान्। एतस्य ओजस्वीवक्तृत्वं, दृढनिश्चयः, आत्मविश्वासः च विश्वनेतॄन् अपि प्रभावितवन्तः।
1943तमे वर्षे सुभाषचन्द्रबोसः सिंगापुरदेशे “आजादहिन्दसर्वकार” इति अस्थायी स्वतंत्रभारतीयसर्वकारस्य स्थापनाम् अकरोत् । एषः स्वयमेव राष्ट्राध्यक्षः, प्रधानमन्त्री, युद्धमन्त्री च अभवत्। एष:सर्वकार: भारतदेशस्य स्वतंत्रतायाः प्रतीक: आसीत्। भारतस्य स्वतंत्रतायां सुभाषचन्द्रबोसस्य सर्वाधिकं महत्त्वपूर्णं योगदानं “आजादहिन्दसेना” इत्यस्या: संगठनं आसीत्। “चलन्तु दिल्लीनगरं प्रति” इति घोषणया एषः भारतीयसैनिकान् प्रेरितवान्। एषः स्त्रीणां सक्रियता वर्धनाय “राणी-झाँसी-रेजिमेण्ट” इति स्त्रीसेनाम् अपि स्थापितवान्। एषा सेना भारतस्य सीमाप्रदेशेषु ब्रिटिशसैन्येन सह संघर्षं कृतवती।
यद्यपि आजादहिन्दसेना सैनिकदृष्ट्या पूर्णसफलतां न प्राप्तवती, तथापि तस्या प्रभावः अत्यन्तं व्यापकः आसीत् ।आजादहिन्दसेनाया: सैनिकानां न्यायप्रक्रियया सम्पूर्णभारतदेशे राष्ट्रभक्तेः ज्वाला प्रज्वलिता। ब्रिटिशसैन्येषु अपि असन्तोषः उत्पन्नः जातः। अनेन प्रकारेण सुभाषचन्द्रबोसस्य प्रयासाः भारतस्य स्वतंत्रताप्राप्तिं समीपं नीतवन्तः। यद्यपि सर्वे जानन्ति यत् 1945 तमे वर्षे ताइहोकुविमानदुर्घटनायां सुभाषचन्द्रबोसस्य मृत्युः अभवत् ,तथापि एषा घटना अद्यापि विवादास्पदा, रहस्यमयी च अस्ति। किन्तु शारीरिकरूपेण अनुपस्थितो भूत्वा अपि नेताजीमहोदयः भारतीयजनमानसे सदा जीवितः अस्ति।
सुभाषचन्द्रबोसः स्वावलम्बनं, राष्ट्रियैकताम् , अनुशासनं, बलिदानं च विशेषरूपेण प्रतिपादितवान्। एतस्य दृष्टौ राष्ट्रहितं सर्वोपरि आसीत्। व्यक्तिगतसुखं, पारिवारिकजीवनं च एतेन राष्ट्रसेवायै उत्सृष्टं कृतम् । भारतदेशस्य स्वतंत्रतायां सुभाषचन्द्रबोसस्य योगदानम् अमूल्यं, अद्वितीयम्, अविस्मरणीयं च अस्ति। एषः भारतीयस्वतंत्रतासंग्रामस्य क्रान्तिकारीचेतनायाः प्रतीकः आसीत्। एतस्य जीवनं अस्मान् शिक्षयति यत् स्वतंत्रता याचनया न लभ्यते , अपि तु अर्जनेन एव प्राप्यते ।अत्र वयं वक्तुं शक्नुमो यत् यदा यदा भारतदेशस्य स्वतन्त्रतान्दोलनस्य चर्चा भविष्यति तदा तदा जना: नेताजीसुभाषचन्द्रबोसमहाभागस्य स्मरणं करिष्यन्ति एव। भारतीयस्वतंत्रतायाः इतिहासे एतेषां नाम स्वर्णाक्षरैः लिखितो भविष्यति। वयं एतं महापुरुषं प्रणामांजलिं
समर्पयाम:।
