प्रधानमन्त्री नरेन्द्रमोदी तमिलनाडु-राज्यस्य कोयम्बत्तूर-नगरे पी. एम-किसान-योजनायाः एकविंशतितमं देय मूल्यानि लोकार्पितवान्।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी तमिलनाडु-राज्यस्य कोयम्बत्तूर-नगरे पी. एम-किसान-योजनायाः एकविंशतितमं देय मूल्यानि लोकार्पितवान्। सम्पूर्ण देशे नवकोटि-कृषकान् समर्थनाय प्रायः अष्टादशसहस्रकोटिरूप्यकाणि प्रदत्तानि । प्रधानमन्त्री कोयम्बत्तूर-नगरे दक्षिण-भारत-प्राकृतिक-कृषि-शिखरसम्मेलने भागं भजितवान्। अस्मिन् अवसरे श्रीमोदी अवदत् यत्, विगतैकादश-वर्षेषु कृषिक्षेत्रे परिवर्तनात्मकानि परिष्काराणि दृष्टानि सन्ति। सः अवदत् यत्, देशः प्राकृतिककृपे वैश्विककेन्द्रं भवति तथा च तस्य जैवविविधता नूतनं स्वरूपं गृह्णाति। सः अवदत् यत्, कृषि-निर्यातः द्विगुणितः अभवत्, तथा च सर्वकारेण कृषि-पद्धत्यां आधुनिकीकरणाय नैके उपायाः कृताः सन्ति।
कृषि-निर्यातः द्विगुणितः अभवत् – प्रधानमंत्री।
प्रधानमंत्री अवदत् यत्, कृषकाः किसान्-क्रेडिट्-काई इत्यनेन माध्यमेन दश लक्ष-कोटिरूप्यकाणां लाभान् प्राप्तवन्तः। प्रधानमन्त्री सूचितवान् यत् देशस्य यूनः अधुना कृषिकार्य आधुनिक, व्यापकावसर-रूपेण पश्यन्ति । सः अवधानं दत्तवान् यत् विकसितभारतस्य कृते भविष्यकालिककृषि-व्यवस्थायाः निर्माणाय समन्वितप्रयासानां आवश्यकता वर्तते इति।
केन्द्रीय-सूचना-प्रसारण-राज्यमन्त्री डा. एल्. मुरुगन् वर्यः उक्तवान् यत्, तमिलनाडुराज्यस्य द्वाविंशतिलक्षं यावत् कृषकाः पी. एम्. किसान् सम्मान् निधि-योजनया लाभं प्राप्तवन्तः। कार्यक्रमस्य समये प्रधानमन्त्रिणा कृषकै: सह संवादः अपि साधितः।
प्रधानमन्त्री नरेन्द्रमोदी पी. एम-किसान-योजनायाः एकविंशतितमं देय मूल्यानि लोकार्पितवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
