प्रधानमन्त्री नरेन्द्रमोदी अद्य पुट्टापर्थि श्रीसत्यसांई बाबा इत्यस्य महासमाधिं गमिष्यति ।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेशस्य तमिळुनाडुराज्यस्य च यात्रायां भविष्यति । आन्ध्रप्रदेशस्य प्रवासे श्रीमोदी पुट्टापर्थि श्रीसत्यसांई बाबा इत्यस्य महासमाधिं गत्वा प्रणामं करिष्यति। तस्य सम्मानार्थं स्मारकमुद्रां, मुद्रापत्राणां समुच्चयं च लोकार्पयिष्यति। कार्यक्रमावधौ प्रधानमन्त्री सभामपि सम्बोधयिष्यति। पश्चात् सः तमिळुनाडुराज्यस्य कोयम्बत्तूर-नगरं गत्वा दक्षिणभारत-प्राकृतिक-कृषि-शिखरसम्मेलनम् इत्यस्य उद्घाटनं करिष्यति। कार्यक्रमावसरे, श्रीमोदी पी. एम. किसान इत्यस्य एकविंशतितमं पुटकमपि वितरिष्यति ।
प्रधानमन्त्री नरेन्द्रमोदी अद्य पुट्टापर्थि श्रीसत्यसांई बाबा इत्यस्य महासमाधिं गमिष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
