Delhi blast देहल्यां रक्तदुर्ग-मेट्रोस्थानकस्य प्रथमक्रमाङ्कस्य समीपे कारविस्फोट:
हिमसंस्कृतवार्ता: – नवदेहली।
सोमवासरे सायं रक्तदुर्ग-मेट्रोस्थानकस्य प्रथमक्रमाङ्कस्य समीपे कारविस्फोटेन व्यापकः आतङ्कः उत्पन्नः। विस्फोटस्य बलम् एतावत् तीव्रम् आसीत् यत् कारयानस्य एकः भागः रक्तदुर्गस्य समीपे स्थिते रक्तमन्दिरस्य उपरि अवतरत् । मन्दिरस्य काचः भग्नः अभवत्, समीपस्थानां कतिपयानां आपणानां द्वाराणि, वातायनानि च क्षतिग्रस्तानि अभवन् । अस्यां घटनायां अनेके जनाः घातिताः इति सूचनाः प्राप्ताः।
विस्फोटस्य अनन्तरं तत्क्षणमेव समीपस्थेषु आपणेषु अग्निप्रकोपः अभवत् । चान्दनीचौकस्य भागीरथप्रासादक्षेत्रपर्यन्तं कम्पः अनुभूतः, आपणिका: च परस्परं आहूय स्थितिं पृच्छन्तः दृश्यन्ते स्म अनेकानि बसयानानि अन्यानि च वाहनानि अपि अग्निना प्रज्वलिताः इति सूचनाः प्राप्ताः ।
अग्निशामकविभागाय सायंकाले कारविस्फोटस्य विषये दूरवाणी प्राप्ता। तत्क्षणमेव षट् एम्बुलेन्सयानानि, सप्त अग्निशामकवाहनानि च घटनास्थले प्रेषिताणि । आश्रय-उद्धार-कार्यं प्रचलति, अग्नि-नियन्त्रणार्थं च प्रयत्नाः प्रचलन्ति ।
विस्फोटस्य कारणम् अद्यापि अज्ञातम् अस्ति। पुलिसैः क्षेत्रस्य परिक्रमणं कृतम् अस्ति, अन्वेषणसंस्थाः च घटनास्थले प्रमाणानि सङ्गृह्णन्ति। प्रारम्भिकसमाचाराः सूचयन्ति यत् एषः विस्फोटः कारमध्ये अभवत्, परन्तु तस्य स्वरूपं कारणं च अद्यापि अस्पष्टम् अस्ति । घटनायाः अनन्तरं सम्पूर्णे रक्तदुर्गे, चान्दनीचौकक्षेत्रे सुरक्षावर्धनं कृतम् अस्ति।
