By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतसप्ताहस्य आयोजनस्य तृतीयदिने नीमचजिल्लाशिक्षाप्रशिक्षणसंस्थानस्य आयोजनम् संस्कृतनाट्यमञ्चेन सह सम्पन्नम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतसप्ताहस्य आयोजनस्य तृतीयदिने नीमचजिल्लाशिक्षाप्रशिक्षणसंस्थानस्य आयोजनम् संस्कृतनाट्यमञ्चेन सह सम्पन्नम्
संस्कृतगतिविधयः

संस्कृतसप्ताहस्य आयोजनस्य तृतीयदिने नीमचजिल्लाशिक्षाप्रशिक्षणसंस्थानस्य आयोजनम् संस्कृतनाट्यमञ्चेन सह सम्पन्नम्

जगदीश डाभी
Last updated: 2025/08/08 at 11:11 PM
जगदीश डाभी
Share
2 Min Read
SHARE

संस्कृतसप्ताहस्य आयोजनस्य तृतीयदिने नीमचजिल्लाशिक्षाप्रशिक्षणसंस्थानस्य आयोजनम् संस्कृतनाट्यमञ्चेन सह सम्पन्नम्

वार्ताहर: – जगदीश डाभी

कार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्वलनानन्तरं छात्रैः नृत्यरूपेण सरस्वतीवन्दनया अभवत्। ततः नृत्यरूपेणैव स्वागतगीतं प्रस्तुतम्। अतिथीनां परिचयः श्रीदिग्विजयपालीवालमहोदयेन कृतः। संस्कृतसप्ताहस्य विषयस्य प्रस्तुति: श्रीमती इन्दिरालोहारमहाेदयया कृता। कार्यक्रमे प्रथमवर्षद्वितीयवर्षयोः सर्वेऽपि छात्राः संस्कृतभाषामाध्यमेन नानाविधानि प्रस्तुतीः अयोजयन् — एकलगानम्, समूहगानम्, शक्तिस्तोत्रम् महिषासुरमर्दिनि, शिवताण्डवस्तोत्रम्, संस्कृतगीतं नृत्येन सह, श्लोकाः, सूक्तयः, मन्त्रॊच्चारणं च — इत्यनेन आनन्दपूर्णः संस्कृतवातावरणः निर्मितः। अनन्तरं सर्वे संस्थायाः अधिकारीणः स्वस्वविचारान् प्रकटयन्। संस्थानस्य पूर्वप्राचार्यः श्रीचन्द्रप्रकाशशर्मामहाशयः अध्यक्षपदेन आसीनः सन् भाषणं कृत्वा संस्कृतस्य आवश्यकता, महत्वं, गौरवशाली इतिहासः, बाल्यकाले संस्कारप्रेरणा च, एषां संरक्षणाय उपदेशं दत्तवान्। सर्वे छात्राणां उत्साहवर्धनं कृत्वा प्रशंसा च अकुर्वन्, यतः अल्पसमयेऽपि अद्भुतं प्रदर्शनं कृतम्। प्रयत्नेन वयं सर्वे सहजतया संस्कृतं अधिगन्तुं शक्नुमः, गर्वोऽपि अस्माभिः कर्तव्यः यतः अस्माकं जन्मभूमिः आर्यावर्ते अस्ति, अस्माकं प्राचीना संस्कृति: संस्कृतमूलका एव।
कार्यक्रमस्य मुख्यातिथिः श्रीगोवर्धनसोनिगरामहाेदयः — वरिष्ठः समाजसेवी, यः विगतत्रिंशत् वर्षेषु नानाविधानि सामाजिकदायित्वानि वहन् अद्यापि अखिलभारतीयसंस्कृतभारतीसंघटनस्य विभागसंयोजकपदे शिक्षाक्षेत्रे कार्यरतः — स्वभाषणे सर्वेषां संस्कृतज्ञानाभावसन्देहं निवारयामास। सः प्रदर्शितवान् यत् प्रत्येकः जनः स्वजीवनस्य प्रतिदिनं संस्कृतं प्रयुङ्क्ते, चैतत् अत्यन्तं सरलम् अस्ति। विदेशेषु अपि संस्कृतभाषया प्रगत्यै उन्नत्यै च प्रयासाः क्रियन्ते, संस्कृतं अनिवार्यरूपेण पठ्यते। उदाहरणतया सः उक्तवान् यत् लन्दनस्थितायां ऑक्स्फर्डविश्वविद्यालये अब्राहम् लिंकन विद्यालये संस्कृतं अनिवार्यम् अस्ति। अन्येषु अपि अनेकेषु राष्ट्रेषु संस्कृतमाध्यमेन शिक्षां उच्चकोटौ नयितुं प्रयत्नाः भवन्ति। नासा संस्थायां च कथं प्रकारेण अन्तरिक्षे संदेशाः संस्कृतभाषायामेव प्रेष्यन्ते, येन तेषां विज्ञानं सरलतया ज्ञायते, संस्कृतभाषायाः प्रयोगः अस्माकं सर्वेषु उत्सवेषु, पर्वेषु, जीवनसंस्कारेषु इत्यादिषु कथं दृश्यते — एतत् अपि विवेचितम्। मृत्युना अनन्तरं अपि ये पुण्यफला: सन्ति ते संस्कारैः, संस्कृत्या, संस्कृतेः च एव लभ्यन्ते इति उक्तवान्। सर्वान् छात्रान् संस्कृतसप्ताहस्य अभिनन्दनं कृत्वा गर्वं व्यक्तवान्, सर्वेषां प्रशंसा च अकरोत्। “अयं श्रेष्ठः कार्यक्रमः भवद्भिः अत्र आयोजितः, संस्कृतरक्षणाय अयं प्रथमः चरणः अस्ति, अतोऽहं आशां करोमि यत् ‘चरैवेति-चरैवेति’ मन्त्रेण एषः अनवरतः प्रवहतु” इति आशीर्वचनानि दत्तानि।
अन्ते कार्यक्रमस्य आभारप्रदर्शनं सुश्रीवर्षाभारतीमहादय्या कृतम्। कार्यक्रमस्य सफलसंचालनं प्रथमवर्षस्य प्रशिक्षुणा अंकितकुमारबन्धुना कृतम्। शान्तिमन्त्रेण विसर्जनं सम्पन्नम्। कार्यक्रमे सर्वे अधिकारी-कर्मचारी-प्रथमद्वितीयवर्षप्रशिक्षिणः च उपस्थिताः आसन्।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article डाइट-नीमचं द्वारा संस्कृतसप्ताहस्य आयोजनम्
Next Article देवभूमि-द्वारका जनपदस्य जामखंभालिया नगरस्य संस्कार एज्युकेशन ट्रस्टस्य एस एन डी टी माध्यमिक  विद्यालये “संस्कृत पुस्तक प्रदर्शनी” प्रदर्शिता जाता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?