By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: लोकसभायां ऑपरेशन-सिंदूर इत्यस्य विषये विशिष्टा चर्चा अभवत् , सर्वकारेण सेनायाः प्रदर्शनं प्रशंसितम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > लोकसभायां ऑपरेशन-सिंदूर इत्यस्य विषये विशिष्टा चर्चा अभवत् , सर्वकारेण सेनायाः प्रदर्शनं प्रशंसितम्
राष्ट्रीयवार्ताः

लोकसभायां ऑपरेशन-सिंदूर इत्यस्य विषये विशिष्टा चर्चा अभवत् , सर्वकारेण सेनायाः प्रदर्शनं प्रशंसितम्

डॉ.अमनदीप शर्मा
Last updated: 2025/07/29 at 6:37 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

लोकसभायां ऑपरेशन-सिंदूर इत्यस्य विषये विशिष्टा चर्चा अभवत् , सर्वकारेण सेनायाः प्रदर्शनं प्रशंसितम्
हिमसंस्कृतवार्ता: – सद्य एव पहलगाम इत्यत्र जातं आतङ्किप्रकरणं विरुध्य भारतस्य सैन्यप्रतिक्रियायाः ऑपरेशन-सिंदूर इत्यस्य विषये लोकसभायां विशिष्टा चर्चा अभवत् । रक्षामंत्री राजनाथसिंहः प्रोक्तवान् यत् ऑपरेशन-सिन्दूर इति अभियानेन पाकिस्तानाय स्पष्टः संदेशः प्रेषितः अस्ति यत् आतङ्केन सह शान्तिवार्ता न चलिष्यति । अस्मिन्नेव क्रमे तेन उक्तं यत् प्रत्युत्तरप्रदाने पाकिस्तानस्य शताधिकाः आतङ्ङ्किनः मारिताः नव आत‌ङ्किस्थानकानि अपि नष्टानि अभवन् । श्रीसिंहः पाकिस्तानम् अवरोढुं एस-400, आकाश चेत्यादीनां प्रणालीनां उपयोगकर्तुं सशस्त्रबलानां प्रशंसां कुर्वन् प्रोक्तवान् यत् अस्माकं कीदृशी अपि महत्वपूर्णा भारतीया सम्पत्तिः क्षतिग्रस्ता नाभवत् । सहैव तेन प्रोक्तं यत् संघर्षविरामे कस्यापि बाह्यदेशस्य हस्तक्षेपः नासीत् । सिंहेन पाकिस्तानस्य उपरि आरोपः प्रख्यापितः यत् पाकिस्तानेन आतंकवादः स्वकीया राज्य-नीतिरूपेण स्वीकृतः अस्ति सहैव तेन कथितं यत् प्रधामन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतेन पाकिस्तानं विरुध्य कठोराचरणं कर्तुं निर्णयः स्वीकृतः अस्ति ।

सर्वोच्चन्यायालयेन कलकत्ता-उच्चन्यायालयस्य कार्यान्वयनस्य अन्तरिम-आदेशः स्थगितः
हिमसंस्कृतवार्ता: – सर्वोच्चन्यायालयेन कलकत्ता-उच्चन्यायालयस्य अन्तरिम-आदेशः स्थगितः, येन पश्चिमबङ्गाल-सर्वकारेण अधिसूचितायाः (ओ.बी.सी.) अन्य-अप्रगतिशील-वर्गाणां संशोधितसूच्याः कार्यान्वयनं स्थगितम् । भारतस्य मुख्यन्यायाधीशेन बी.आर्-गवयिवर्येण, न्यायमूर्तिः के. विनोदचन्द्रन इत्यनेन, न्यायमूर्तिः एन.वी.अञ्जारिया इत्यनेन च पश्चिमबङ्ग-सर्वकारेण प्राख्यापितायाः विशेष-अनुमति:-याचिकायाः विषये सूचना-निर्गमने स्थगनादेशः पारितः । सर्वोच्चन्यायालयः उच्चन्यायालयस्य तर्कं प्रति आश्चर्यं प्रकटितवान् यत् केवलं विधायिका ओ. बी. सी. इति अन्य अप्रगतिशील वर्गाणां वर्गीकरणं अनुमोदयितुं अधिकारं धारयति, एतत् स्पष्टीकृत्य यत् आरक्षणं कार्यकारि-क्षेत्राणां परिधौ अन्तर्भवति। मुख्यन्यायाधीशः गवयिवर्यः उच्चन्यायालयस्य टिप्पण्याम् असहमतिं प्रकट्य अकथयत् यत् राज्येन द्वाविंशत्युत्तर-द्विसहस्रतमाब्दस्य अधिनियमे संशोधनं कर्तुं स्वकीयायां अनुसूच्यां नवाः कक्षाः योजयितुं च सूचनाप्रपत्रस्य प्रस्तुतीकरणं विधानमण्डलसमक्षं विधेयकस्य प्रस्तुतीकरणं च आवश्यकरूपेण विधातव्यम् आसीत् । अवधेयं यत् कलकत्ता-उच्चन्यायालयेन जूनमासस्य सप्तदशदिनाङ्‌के ओबीसी-ए, ओबीसी-बी इत्यनयोः समूहयोः चत्वारिंशदधिकैकशतं उप-श्रेणिभ्यः राज्येन प्रकाशिताः आरक्षण-संबंधाः अधिसूचनाः स्थगिताः आसन् । शीर्षन्यायालयः सप्ताहद्वयाभ्यन्तरं प्रकरणे अस्मिन् कार्याचरणं विधास्यति ।

हरवानक्षेत्रे “महादेव” इत्यभियानस्य अन्तर्गतं सुरक्षाबलै: सह द्वन्द्वे त्रयः आतङ्कवादिनः मारिताः ।
हिमसंस्कृतवार्ता: – श्रीनगरस्य हरवानस्य लिडवासक्षेत्रे ‘महादेव’ इत्यभियानस्य अन्तर्गतं सुरक्षाबलैः सह द्वन्द्वे त्रयः आतङ्कवादिनः मारिताः इति भारतीयसेनया X इत्यत्र प्रकाशिते संदेशे प्रोक्तम्। अभियानेन सह अन्वेषणम् अधुनापि प्रचलति। कश्मीरस्य आरक्षि-महानिदेशकेन प्रोक्तं यत् हतानाम् आतङ्कवादिनाम् अभिज्ञानम् अधुनापि न अभवत्।

You Might Also Like

कनाडा-देशस्य प्रधानमंत्री मार्ककार्नी-महोदयस्य भारतयात्रा

राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकस्य डॉ. मोहनरावभागवतस्य संबोधनम्

इज़राइल-संसदि प्रधानमंत्री-मोदिनं ‘स्पीकर ऑफ द नेसेट मेडल’ इति पुरस्कारेण सम्मानम्

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article International Minjar Fair Chamba- अभिजाताः सामान्यजनाः च मिलित्वा पश्यन्ति मिञ्जारमेलाम्,
Next Article जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?