भारतीयान्तरिक्षयात्री शुभांशु-शुक्लः एक्जियोम्-4 इत्यभियानाय यानारूढोऽजायत,
राकेशशर्मणः अनन्तरं चतुर्षु दशकेषु अन्तरिक्षं गच्छन्प्रथमः भारतीयः
हिमसंस्कृतवार्ता: – भारतीयः अन्तरिक्षयात्री शुभांशुशुक्लः एक्जियोम्-4 इत्यभियानेन अन्तरिक्षं प्रस्थितवान्, अवसरोऽयं देशाय ऐतिहासिकमहत्वधायी वर्तते। अवधेयं वर्त्तते यत् राकेश-शर्मणः अनन्तरं शुक्लः चतुर्ष दशकेषु प्रथमः भारतीयः अस्ति यः अन्तरिक्षं प्रविशति। प्राप्तवार्तानुसारं भारतीय-मानक-समयानुसारम् एकाधिकद्वादशवादने संयुक्तराज्यामेरिकादेशस्य फ़्लोरिडा-नगरस्य केनेडी-स्पेस्-केन्द्रात् एतत् प्रक्षेपणम् अभवत् । एक्सिओम् मिशन् इत्यस्य नेतृत्वं अमेरिकादेशस्य कमाण्डर पेगी विट्सन् इत्येषः करोति, यत्र भारतीय-वायुसेनायाः ग्रूप्-केप्टन् शुभांशु-शुक्लः मिशन्-पायलट इति रूपेण, हंगेरियन्-अन्तरिक्षयात्री टिबोर् कापू, पोलिश्-अन्तरिक्षयात्री स्लावोस् उज़्नान्स्की-विस्त्रीव्स्की च अभियानस्यास्य विशेषज्ञरूपेण सन्ति। भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् अवदत् यत्, एक्जियोम्-4 इति सायं सार्धचतुर्वादने अन्ताराष्ट्रिय-अन्तरिक्ष-स्थानकेन सह सम्पर्कं करिष्यति। ग्रूप्-केप्टन् शुक्लः अन्तरिक्षात् सन्देशम् प्रेषितवान् यत् एषा अद्भुतयात्रा अस्ति । सः अवदत् यत् एषा यात्रा अन्ताराष्ट्रिय-अन्तरिक्षकेन्द्रस्य आरम्भः नास्ति अपितु भारतस्य मानव-अन्तरिक्ष-कार्यक्रमस्य आरम्भः वर्त्तते । ग्रूप्-केप्टन् शुक्लः जयहिन्दू जयभारत् इति उक्त्वा प्रत्येकं भारतीयः तस्य भागः भवितुं च आमन्त्रयत्। शुभांशु-शुक्लः अन्ताराष्ट्रिय-अन्तरिक्षस्थानके स्वस्याभियाने सप्तविशिष्टानि सूक्ष्म-गुरुत्वीय च प्रयोगाणि करिष्यति। ध्यातव्यं वर्त्तते यत् शुक्लाय अवसरोऽयम् भारतीय-वायुसेनायाः विङ्ग्-कमाण्डर् राकेश्-शर्मणः अनुकरणात्मकं भविष्यति, यः सोवियत्-इण्टर्कोस्मोस्-कार्यक्रमस्य भागत्वेन चतुरशीत्यधिकैकोनविंशतितमवर्षस्य अप्रैलमासस्य तृतीय-दिनाङ्के सोयुज्-टी-11 इत्यस्मिन् उड्डीयत। शर्मा-वर्यः साल्युट् -7 इति अन्तरिक्षस्थानके सप्तदिनानि अन्तरिक्षे एवं व्यतीतवान्।राष्ट्रपतिः द्रौपदीमुर्मूः भारताय अन्तरिक्षीय-नूतनसोपानस्य उद्घाटनाय शुक्लं अभिनन्दितवती; प्रधानमन्त्री नरेन्द्रमोदी च अवदत् यत् सः चत्वारिंशदधिकैकशतकोटि-भारतीयानां आशाम् आकांक्षाञ्च वहति।
राष्ट्रपतिपदासीना द्रौपदीमुर्मू: इत्येषा अकथयत् यत् शुभांशुशुक्लः भारताय अन्तरिक्षस्य नूतनं सोपानमुद्घाटयन्नस्तीति मत्वा, आराष्ट्र नक्षत्राणां यात्रायै गर्वोत्साहाभ्यां भरितमस्ति। सामाजिक-प्रसार माध्यमे राष्ट्रपतिः मुर्मुः अवदत् यत्, शुक्लः तस्य सहान्तरिक्षयात्रिणश्व वस्तुतः वसुधैव कुटुंबकमिति सिद्धीकृतवन्तः। सा अभियानस्य सफलतायै शुभाशयाः प्रेषितवती। प्रधानमन्त्री नरेन्द्रमोदी सामाजिक-प्रसार-माध्यमेन अन्तरिक्षाभियानाय सफल-प्रक्षेपणस्य स्वागतम् अकरोत्, श्रीमोदी अवदत् यत्, भारतीयान्तरिक्षयात्री ग्रूप्-क्याप्टन् शुभांशु शुक्लः अन्ताराष्ट्रिय-अन्तरिक्ष केन्द्रम् प्रति गन्ता प्रथमः भारतीयः भवन्नस्ति। प्रधानमंत्री अवदत् यत्, ग्रूप्-क्याप्टन् शुक्लः चत्वारिंशदधिकैक-शतकोटि-भारतीयानां शुभाशयाः, आशाः, अभिलाषाश्च वहति। केन्द्रीय-अन्तरिक्ष-राज्यमन्त्री डा. जितेन्द्र-सिङ्ङ्घः नवदेहल्यां वार्तालापं कुर्वन् अवदत् यत्, शुभान्शु शुक्लः अस्य सम्पूर्णस्य अभियानस्य महत्त्वपूर्णः घटकः भविष्यति।
भारतीयान्तरिक्षयात्री शुभांशु-शुक्लः एक्जियोम्-4 इत्यभियानाय यानारूढोऽजायत,
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
