By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः अस्ति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः अस्ति
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः अस्ति

डॉ.अमनदीप शर्मा
Last updated: 2025/05/15 at 6:35 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
4 Min Read
SHARE

राष्ट्रीयवार्ताः- अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः अस्ति
हिमसंस्कृतवार्ता: – अरुणाचलप्रदेशस्य अन्तः स्थलेभ्यः नूतनानि नामानि निर्दिष्टुं चीनदेशस्य निरन्तरम्, निराधारम्, असंगतञ्च प्रयत्नम् भारतदेशः स्पष्टतया निराकृतवान्। प्रसारमाध्यमेषु समागतप्रश्नानामुपरि प्रतिक्रियारूपेण, विदेशमन्त्रालयस्य प्रवक्ता रणधीर जैस्वाल: उक्तवान् यत् एतादृशाः क्रियाः पूर्णतया अस्वीकार्याः सन्ति, तथा च भारतीय-सुसंगतसिद्धान्तानुगुणञ्च साक्षात् विरुद्धमस्ति। अरुणाचलप्रदेशः भारतस्य अभिन्नः अविभाज्यश्च भागः आसीत्, अस्ति, सर्वदा च भविष्यतीति स्पष्टं निर्विवादञ्चास्ति, यथार्थ परिवर्तयितुं तस्य पुनः नामकरणं न शक्यते इति सः सबलं प्रतिपादितवान्।

सैन्यत्रयप्रमुखैः राष्ट्रपतिना द्रौपदी मुर्मु इत्यनया सह मिलित्वा आपरेशन् सिन्दूर् इति विषय: ज्ञापितः
हिमसंस्कृतवार्ता: – सैन्यत्रयप्रमुखः, जनरल अनिल चौहानः सेनाध्यक्षः, जनरल् उपेन्द्र द्विवेदी, वायुसेनाप्रमुखः, ए. पी. सिङ्ङ्घः नौसेनाध्यक्षश्च एड्मिरल् दिनेश के. त्रिपाठी च राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया सह मिलित्वा आपरेशन् सिन्दूर इति विषयं ज्ञापितवन्तः। एकस्मिन् सामाजिक-जालपुटप्रकाशने राष्ट्रपतिः सशस्त्रबलानां साहसस्य समर्पणस्य च प्रशंसाम् अकरोत्, आतंकवादं विरुध्य भारतस्य प्रतिक्रिया उल्लेखनीयास्तीति च उक्तवती ।

भारतस्य आपरेशन् सिन्दूराभियानम् अन्ताराष्ट्रिय-विशेषज्ञैः निर्णायक-सैन्य-विजयत्वेन प्रशंसितम्
हिमसंस्कृतवार्ता: – भारतस्य आपरेशन् सिन्दूर इत्यभियानम् रक्षाक्षेत्रीयैः अन्ताराष्ट्रिय-विशेषज्ञैः निर्णायक-सैन्य-विजयत्वेन प्रशंसितमस्ति, यस्मिन् प्रमुखः अमेरिकीय-सैन्य-वयोवृद्धः, जॉन् स्पेन्सरः अपि अस्ति। अप्रैलमासस्य द्वाविंशे दिनाङ्के पहलगाम्- इति क्षेत्रे कृत-क्रूराक्रमणस्य उल्लेखं कुर्वन् स्पेन्सरः अभियानमिमं द्रुतं सुनिर्दिष्टञ्चेति उक्तवान् । सः परमाणोः मृथाभयं विरुध्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः दृढां स्थितिं प्राशंसयत्, यत्र उक्तमासीत् यत् भारतदेशः आपदाम् न सहति तथा च सुनिर्दिष्टतया दृढनिश्चयेन च प्रतिक्रियां करोतीति सन्देशमपि सः आरेखितवान्। सः अवदत् यत् “भारतदेशः प्रतिकारार्थं युद्धं न कुर्वदासीत्” । सः प्रतिरोधाय युद्धं कुर्वन् आसीत्। सः एतदपि अवदत् यत् भारतस्य संयमः दुर्बलता न, अपितु परिपक्वता अस्ति। आस्ट्रिया-देशस्य विमानयानविश्लेषकः लेखकः च टाम् कूपर् इत्येषः अपि भारतस्य प्रतिक्रियां “क्लियर्क‌ट्विक्ट्रीति” इत्युक्ते स्पष्टविजयमिति वर्णितवान्। एकस्मिन् सामाजिक-जालपुटे श्रीकूपर् इत्ययम् अवोचत् यत् पाकिस्तानस्य युद्धविरामं प्रति अग्रे गमनस्य निर्णयः भारतस्य श्रेष्ठ-सैन्य-प्रतिक्रियायाः प्रत्यक्षः परिणामः आसीत् ।

उत्तरप्रदेशस्य जेवरविमानस्थानं निकषा एकस्य सेमीकंडक्टर इति अर्धचालकेत्यस्य उद्योगस्य संस्थापनाय सर्वकारस्य अनुमोदनम्
हिमसंस्कृतवार्ता: – उत्तरप्रदेशस्य जेवरविमानस्थानं निकषा एकस्य सेमीकंडक्टर इति अर्धचालकेत्यस्य उद्योगस्य संस्थापनाय अनुमोदनं केन्द्र-सर्वकारेण कृतम् अस्ति । सामाजिकान्तर्जालीय-पटले सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः अवदत् यत् अस्य एकस्य प्रवर्गस्य संस्थापनं एचसीएल-फॉक्सकॉन्- इत्येतयोः संयुक्तोद्यमेन सह इण्डिया सेमीकण्डक्टर् मिशनेत्यस्यान्तर्गतं भवति । सः अवदत् यत्, अस्य संयन्त्रस्य निर्माणं प्रतिमासं विंशति-सहस्रं यावत् वेफर्स इत्यस्योत्पादनाय अस्ति, निर्माणोत्पादनक्षमता च प्रतिमासं षड्त्रिंशत् मिलियन यूनिट् इति अस्ति। सः अवदत् यत् जेवर इत्यत्र नूतनं अर्धचालक-सन्यन्त्रं सप्तशताधिक-त्रिसहस्र-कोटिरूप्यकाणां निवेशं आकर्षयिष्यति। श्रीवैष्णवः अवदत् यत्, पञ्च अर्धचालक-सन्यन्त्राणि पूर्वमेव निर्माणस्य उन्नते स्तरे सन्ति तथा च एतैः षट्-सन्यन्त्रैः सह भारतं सामरिकदृष्ट्या महत्त्वपूर्णस्य अर्धचालक-उद्योगस्य विकासाय स्वयात्रायाम् अग्रे गच्छति। सः अवदत् यत्, सप्तत्यधिक- द्विशत-शैक्षणिकसंस्थासु सप्तति: नवोद्योगेषु च छात्राः उद्यमिनः च नूतनानाम् उत्पादानाम् विकासाय विश्वस्तरीय नवीनतम-विनिर्माण-प्रौद्योगिकीषु कार्यं कुर्वन्ति।

न्यायाधीशः भूषणरामकृष्णगवयिः भारतस्य सर्वोच्चन्यायालयस्य द्विपञ्चाशत्तम-मुख्यन्यायाधीशत्वेन शपथवचनं स्वीकृतवान्
हिमसंस्कृतवार्ता: – न्यायाधीशः भूषणरामकृष्ण गवयिः भारतस्य सर्वोच्चन्यायालयस्य द्विपञ्चाशत्तम-मुख्यन्यायाधीशत्वेन राष्ट्रपतिभवने समायोजिते विशेषसमारोहे शपथवचनं स्वीकृतवान्, राष्ट्रपतिना द्रौपदीमुर्मू वर्यया च शपथवचनं ग्राहितम्। न्यायाधीशः बी. आर्. गवयिः पूर्वमुख्यन्यायाधिशस्य सञ्जीव खन्ना इत्यस्य उत्तराधिकारी अभवत्, येन मुख्यन्यायाधीश कार्यालयः त्यक्तः। समारोहेस्मिन् उपराष्ट्रपतिः जगदीपधनखड, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रस्य अनेके मन्त्रिणः, सर्वोच्चन्यायालयस्य न्यायाधीशाः च भागम् अगृह्णन्।

पञ्जाब/बी.एस्.एफ. सैनिकस्य पुनरागमनम्
हिमसंस्कृतवार्ता: – सीमा-सुरक्षा-बलस्य एकः सैनिकः पूर्णम् कुमार शॉ, पञ्जाब्-राज्यस्य फ़िरोज़पुर्-क्षेत्रे अनवधानेन अन्ताराष्ट्रियसीमा-पारं कृत्वा अप्रैलमासस्य त्रयोविंशतितमे दिनाङ्‌के पाकिस्तानी-रेन्जर्स द्वारा निगडितः आसीत्, सः गतदिने प्रातः भारतं प्रत्यागतवान्।

डॉ. अजय कुमारः संघलोकसेवायोगस्य नूतन: अध्यक्षः: नियोजितः
हिमसंस्कृतवार्ता: – राष्ट्रपतिपदासीनया द्रौपदी मुर्मू इत्यनया डॉ. अजय कुमारं सङ्घलोक सेवायोगस्य अध्यक्षः नियोजितः। कार्मिकप्रशिक्षणविभागात् निर्गतादेशानुसारं डॉ. कुमारस्य कार्यकालः तस्मिन्नेव दिने आरप्स्यते यस्मिन् दिने सः आयोगाध्यक्षरूपेण प्रभारं स्वीकरिष्यति। डॉ. कुमारः पञ्चाशीत्यधिकैकोनविंशतितमवर्ष-वर्गस्य केरलसंवर्गस्य सेवानिवृत्तः भारतीयप्रशासनिकसेवापदाधिकारी अस्ति। सः पूर्व ऊनविंशत्यधिक द्विसहस्रतम वर्षस्य अगस्तमासात् द्वाविंशत्यधिक द्विसहस्रतम वर्षस्य अक्टोबर्-मासपर्यन्तं रक्षासचिवरूपेणापि कार्यं कृतवान् ।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article Wallace Line ‘वालसरेखा’ इति नैसर्गिकी लक्ष्मणरेखास्ति किम्?
Next Article
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?