कृषकेभ्य: २७०१.४० मेट्रिकटन गोधूमस्य क्रयणं, ४.२५ कोटिरूप्यकाणां भुक्तिः
हिमसंस्कृतवार्ता: – शिमला।
एतावता राज्यस्य कृषकेभ्य: २७०१.४० मेट्रिकटनमितं गोधूमस्य क्रयणं कृतम् अस्ति । गोधूमसस्यस्य कृते ४.२५ कोटिरूप्यकाणां भुक्तिः कृषकाणां कृते मुक्ता अस्ति। गोधूमक्रयणकेन्द्रेषु कृषकाणां गोधूमसस्यं तीव्रगत्या विक्रीयते। राज्ये एप्रिलमासस्य ८ दिनाङ्कात् गोधूमक्रयणकेन्द्राणि उद्घाटितानि आसन्। गोधूमक्रयणकेन्द्राणां उद्घाटनानन्तरं अधुना कृषकाः स्वसस्यविक्रयणार्थं गोधूमक्रयणकेन्द्रेषु आगताः सन्ति। कृषकाः स्वगोधूमसस्यस्य विक्रयणार्थं विभागस्य पटले पञ्जीकरणं आरब्धवन्तः। विभागस्य पटले १३२० कृषकाः पञ्जीकरणं कृतवन्तः, येषु १२५६ कृषकाणां पञ्जीकरणं अद्यावधि सत्यापितं कृतम् अस्ति। एतदतिरिक्तं गोधूमसस्यविक्रयणार्थं १०४४ कृषकाणां कृते कूटसंख्या: (टोकन) निर्मिताः सन्ति । गोधूमसस्यं राज्यनागरिकापूर्तिनिगमेन कृषकेभ्य: क्रेष्यते। एतदर्थम् राज्ये ११ गोधूमक्रयकेन्द्राणां स्थापना कृता अस्ति। येषु धौला कुआं, एपीएमसी पांवटासाहब जिलासिरमौर:, एपीएमसी रामपुरम्, विपणीप्राङ्गणम् टकराला जिला ऊना, विपणीप्राङ्गणम् नालागढ़ं, मलपुरं बद्दी जिला सोलनम्, अन्नविपणि फतेहपुरम्, मिलवां इन्दौरा, रियाली, नग्रोटा वागवां, शाकविपणी बैजनाथम् जिला कांगड़ा सम्मिलितानि। एतेषां विपणीनाम् माध्यमेन कृषकाणां कृते गोधूमसस्यस्य क्रयणं भविष्यति।
राज्ये कृषकाणां न्यूनतमं समर्थनमूल्यं प्रतिक्विन्टलं २४२५ रुप्यकाणि इति निर्धारितम् अस्ति। कृषकै: HPAPPP.NIC.IN पटले गत्वा स्वसस्यस्य विवरणं पूरयित्वा स्वस्य गोधूमसस्यस्य विक्रयणार्थं पञ्जीकरणं कर्तव्यं भविष्यति। विभागस्य पटलं पञ्जीकरणार्थं उद्घाटितम् अस्ति। राज्यस्य खाद्यापूर्तिविभागस्य पटले कृषकाणां ऑनलाइन पञ्जीकरणानन्तरं कृषकाणां गोधूमसस्यस्य विक्रयणस्य टोकनसङ्ख्या, तिथिः च सूचिता भविष्यति। पटले उल्लिखिततिथ्यानुसारं कृषकाः गोधूमक्रयणकेन्द्रं गत्वा टोकनसङ्ख्यासहितं स्वसस्यं विक्रेतुं शक्नुवन्ति। एकस्यां दूरभाषसंख्यायां केवलम् एकमेव पञ्जीकरणं सम्भवति। गोधूमसस्यस्य विक्रयणस्य भुक्तिः विभागेन केवलं कृषकलेखेषु एव भविष्यति। खाद्य- आपूर्तिविभागेन गोधूमक्रयणार्थं कृषकाणां पञ्जीकरणार्थं विभागेन HPAPPP.NIC.IN पटलस्य संकेतं सज्जीकृतम् अस्ति। गोधूमक्रयणसम्बद्धाः सर्वविधाः सूचनाः विभागस्य अस्मिन् पटले उपलभ्यन्ते। राज्यस्य कृषकविभागस्य अस्मिन् पटले कस्मिन् अपि कम्प्यूटर-कैफे, कस्मिन् अपि लोक-मित्रकेन्द्रं गत्वा ततः मोबाईल-फोन-माध्यमेन पटल्-मध्ये पञ्जीकरणं कर्तुं शक्यते । पटले पञ्जीकरणं कृत्वा कृषकाणां पञ्जीकरणार्थं विभागस्य पटले आधारसङ्ख्या, वित्तकोषसंख्या, सस्यभूमिविवरणं इत्यादीनि अद्यतन- कर्तव्यानि भविष्यन्ति।