उत्तराखण्डे अक्षयतृतीयायाः शुभावसरे गंगोत्री-यमुनोत्री धाम्नोः कपाटोद्वाटनेन सह पवित्रा पुण्या च चारधाम इत्याख्या प्रसिद्धा यात्रा समारब्धा
हिमसंस्कृतवार्ता: – उत्तराखण्डे अक्षयतृतीयायाः शुभावसरे उत्तरकाशी-मण्डले भक्तानां कृते गंगोत्री-यमुनोत्री धाम्नोः कपाटोद्घाटनेन सह पवित्रा पुण्या च चारधाम इत्याख्या प्रसिद्धा यात्रा समारब्धा। षड्मासात्मिकायाः अस्याः तीर्थयात्रायाः आरम्भः चतुर्णां पूज्यानां हिमालयीयतीर्थानां माध्यमेन आध्यात्मिकरूपेण महत्त्वपूर्णयात्रायाः आरम्भः भवति । प्राप्तवार्तानुसारं वैदिकमन्त्रोच्चारेण धार्मिकानुष्ठानेन च द्वाराणि उद्घाटितानि । अस्मिन् अवसरे देशस्य विभिन्नेभ्यः भागेभ्यः बहवः श्रद्धालवः प्रार्थनां कृतवन्तः । अत्रावधौ मुख्यमन्त्रिणा पुष्करसिंह-धामिना गंगोत्री-धाम्नः दर्शनं प्रार्थना च कृता। श्रीधामी अवदत् यत् राज्यसर्वकारेण तीर्थयात्रीणां सुविधायै व्यापकी व्यवस्था कृता अस्ति । अवधेयं वर्त्तते यत् शुक्रवासरे केदारनाथधाम्नः द्वारं उद्घाट्यते, रविवासरे बद्रीनाथधाम्नः द्वारमपि उद्घाट्यते।
उत्तराखण्डे अक्षयतृतीयायाः शुभावसरे पवित्रा चारधामयात्रा समारब्धा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
