By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: शतकवीर: विराट कोहली, दुबईनगरे भारतेन पाकिस्तानदेशं षड् स्तोभै: पराजितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > शतकवीर: विराट कोहली, दुबईनगरे भारतेन पाकिस्तानदेशं षड् स्तोभै: पराजितः
राष्ट्रीयवार्ताःक्रीडावार्ताः

शतकवीर: विराट कोहली, दुबईनगरे भारतेन पाकिस्तानदेशं षड् स्तोभै: पराजितः

डॉ.अमनदीप शर्मा
Last updated: 2025/02/24 at 7:13 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

शतकवीर: विराट कोहली, दुबईनगरे भारतेन पाकिस्तानदेशं षड् स्तोभै: पराजितः
पाकिस्तानदलस्य अभियानं समाप्तम्।
हिमसंस्कृतवार्ता:- डॉ. अमित शर्मा
विराट कोहली पुनरेकबारं पाकिस्तानदलस्य आशानां विनाशं कृत्वा भारतीयदलाय विजयस्य उपहारं दत्तवान्। गतदिने संयुक्त अरब अमीरातस्य दुबई अंताराष्ट्रीय क्रीडांगणे जायमाने चैम्पियन्स ट्रॉफी इत्यस्य द्वंद्वे विराटस्य शतकबलेन भारतेन पाकिस्तानदलं षड् स्तोभै: पराजित्य प्रतिस्पर्धा विजिता। अनेन पाकिस्तानदलस्य अभियानमपि समाप्तम्। टॉसमिति विजित्य पाकिस्तानदलेन प्रथमं फलकक्रीडका चयनिता। भारतीयकन्दुकक्षेपकाणां समक्षं पाकिस्तानस्य क्रीडका: असहजा: एव आसन्। केवलं सऊद सकील: अर्धशतकं कृत्वा पाकिस्तानदलस्य धावनांकसंख्यां 200तः अग्रे नीतवान्। तेन सः मोहम्मद रिजवान: 46, खुशदिल शाह 38, बाबर आज़मश्च 23 धावनांकानां योगदानं दत्तवन्त:। भारतस्य कुलदीप यादव: 3, हार्दिक पंड्या 2, रविन्द्र जडेजा, हर्षित राणा, अक्षर पटेलश्च 1-1 धावनांकान् योजितवन्त:। 49.4 कन्दुकचक्रेषु पाकिस्तानस्य सम्पूर्णं दलं 241 धावनांकेषु एव अवरुद्धम्।

242 धावनांकानां लक्ष्यस्य प्राप्तिक्रमे भारतीयक्रीडक: विराट कोहली स्वकीय एकदिवसीयप्रारूपस्य 51तमं शतकं कृत्वा भारताय विजयस्य उपहारं दत्तवान्। तेन 111 कन्दुकेषु अविजित: शतकं (100*) कृतम्। श्रेयस अय्यर: 56, शुभमन गिल: 46, रोहित शर्मा च 20 धावनांकान् योजितवन्त:। भारतेन 42.3 कन्दुकचक्रेषु 4 क्रीडकहानौ 244 धावनांकान् अर्जयित्वा इयं विजयश्री: प्राप्ता। पाकिस्तानपक्षतः शाहीन शाह अफरीदी 2, अबरार अहमद:, खुशदिल शाह च 1-1 स्तोभं प्राप्तवन्तौ। विराट कोहली एव प्रतिस्पर्धाया: सर्वश्रेष्ठ: क्रीडक: अपि चयनित:।

भारतस्य अनेन विजयेन चैम्पियन्स ट्रॉफी 2025 इत्यस्यां पाकिस्तानदलस्य अभियानं समाप्तम्। यतोहि पाकिस्तानदलेन स्वकीययो: द्वयो: प्रतिस्पर्धयो: पराजय एव प्राप्त:। अधुना पाकिस्तानदलाय मात्र औपचारिकता एव अवशिष्टा। तद्विपरीतं भारतेन स्वकीये उभे प्रतिस्पर्धे विजिते। भारतं स्वसमूहे प्रथमस्थाने विद्यते पाकिस्तानश्च अन्तिमे। भारतस्य अग्रिमा प्रतिस्पर्धा न्यूज़ीलैंडदेशेन सह मार्च मासस्य द्वितीये दिनांके भविष्यति।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

सीतापुरे संस्कृतप्रतिभान्वेषणप्रतियोगिता सम्पन्ना, छात्रैः प्रदर्शिता स्वप्रतिभा

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article बागेश्वर-धाम-चिकित्सा एवं विज्ञान-अनुसन्धान-संस्थानस्य आधारशिलां संस्थापितवान् प्रधानमन्त्री नरेन्द्रमोदी
Next Article सौराष्ट्रप्रान्तमन्त्रिणा श्रीमत्त्रिवेदिना दयानिधिवचनस्य भर्त्सना कृता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?