केन्द्रीयगृह-सहकारितामन्त्री – केन्द्रीय-पञ्जीयक- सहकारि-समित्याः प्रथमः क्षेत्रीय-कार्यालयः पुणे-नगरे उद्घाटयिष्यते
केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः सूचितवान् यत् केन्द्रीय-पञ्जीयक- सहकारि-समित्याः प्रथमः क्षेत्रीय-कार्यालयः पुणे-नगरे उद्घाटयिष्यते । असौ अद्य पुणेनगरे जनता-सहकारि-बैंक-इत्येतस्य हीरकोत्तार-जयन्त्याः समापन समारोहे प्रवदन् आसीत्। असौ अवोचत् यत् एवमेव देशस्य सहकारि-बैंक-इत्येतान् वित्तीय समस्यातः निष्कासयितुं तेषां च साहाय्यार्थं समर्थनाय च एकं अन्ब्रेला इति सङ्घटनम् निर्मितमस्ति। एतत् सङ्घटनम् सर्वान् सहकारी बैंकान् सुदृढीकर्तुं कार्यं सम्पादयिष्यति । अत्रावसरे मुख्यमन्त्री देवेन्द्रफडणवीसः उपमुख्यमन्त्रिणौ अजितपवार-एकनाथशिन्दे इत्येतौ केन्द्रीय-नागरिकोड्डयनराज्यमन्त्री मुरलीधर मोहोलः इत्यादयः च उपस्थिताः समभवन् ।
केन्द्रीयगृह-सहकारितामन्त्री – सहकारि-समित्याः प्रथमः क्षेत्रीय-कार्यालयः पुणे-नगरे उद्घाटयिष्यते
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
