By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Weather : शिमलासहितेषु हिमाचलस्य अनेकेषु जनपदेषु मेघवर्षणम्, अश्मपाताः च अभवन्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Weather : शिमलासहितेषु हिमाचलस्य अनेकेषु जनपदेषु मेघवर्षणम्, अश्मपाताः च अभवन्
हिमाचलवार्ता

HP Weather : शिमलासहितेषु हिमाचलस्य अनेकेषु जनपदेषु मेघवर्षणम्, अश्मपाताः च अभवन्

डॉ मनोज शैल
Last updated: 2024/06/06 at 3:47 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Weather : शिमलासहितेषु हिमाचलस्य अनेकेषु जनपदेषु मेघवर्षणम्, अश्मपाताः च अभवन्

हिमसंस्कृतवार्ता – शिमला। 

हिमाचलप्रदेशस्य अनेकेषु भागेषु ऋतौ परिवर्तनं जातम्। बुधवासरे अपराह्ने कुल्लुनगरे प्रचण्डवृष्टिः अभवत्। अत्यधिकवृष्ट्या तापमानस्य न्यूनता ज्ञाता। वर्षाकारणात् जनाः उष्णतायाः किञ्चित् विश्रान्तिं प्राप्तवन्तः। तत्सह शिमलामण्डलस्य अपि अनेकेषु भागेषु वर्षा अभवत्। चौपालस्य थरोचक्षेत्रे अश्मपातेन सह वर्षा अभवत्। ऋतुपरिवर्तिता, बुधवासरे सायं ५:२० वादनस्य अनन्तरं राजधानी शिमलानगरे वर्षा आरब्धा। मण्डलमुख्यालयस्य चम्बानगरे अपराह्ने २:०० वादने लघुवृष्ट्या जनै: तप्ततापात् संबलं प्राप्तम्।

काङ्गरामण्डलस्य अनेकेषु भागेषु वातचक्रस्य अनन्तरं  वर्षा, लघु- ओलावृष्टिः च अभवत्। सायंकाले सोलनमण्डले अपि वर्षा अभवत्। ऋतुविज्ञानकेन्द्रशिमलाया: अनुसारम् बुधवासरे राज्यस्य अनेकेषु भागेषु वर्षा भविष्यति इत्यानुमानमासीत्। गतदिवसाद् त्रिदिवसं यावत् केषुचित् भागेषु अश्मपातस्य पीत-सचेतना अपि निर्गता अस्ति। राज्यस्य अनेकेषु भागेषु जूनमासस्य ८ दिनाङ्कपर्यन्तं वर्षा भवितुं शक्नोति। ९ जूनतः सम्पूर्णे राज्ये ऋतु: स्वच्छा एव भवितुं शक्यते।

कुत्र कियत् अधिकतमं तापमानम्

ऊना –     ४२.०

नेरी –       ४३.६

बिलासपुरम्-  ४२.०

सुन्दरनगरम्- ३७.९ 

काङ्गड़ा-       ३९.०

मण्डी –       ३८.७

चम्बा –         ३६.९

धौलाकुआं –  ३९.२

बरठीं –         ३९.०

बजौरा-         ३७.४

डलहौजी –    २८.३

रिकाङ्गपिओ – २८.५

नाहनम् –         ३५.८ 

सोलनम् –         ३३.०

शिमला   –        २८.८

You Might Also Like

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

युनः मादकद्रव्याणि त्यक्ष्यन्ति, क्रीडाः स्वीकरिष्यन्ति- अनुराग ठाकुरः

अप्रत्याशित- मेघविस्फोट- घटनाः सङ्कुचन्तः हिमनदाः च जलवायुपरिवर्तनस्य सङ्केताः- मुख्यमन्त्री सुक्खु:

टांकरी लिपे: पुनरुत्थानाय आयोजिता कार्यशाला, द्वयो: छात्रवृत्तयो: घोषणा

अन्तर्राष्ट्रीय-मण्डी-महाशिवरात्रि-महोत्सवः – राजकीय-शोभायात्रया लघ्वीकाश्यां मण्ड्यां देवी-देवतानां महाकुम्भः आरब्धः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, HP NEWS, HP weather, Meteorological Centre, Meteorological Department:, Meterological Department, Shimla News, मौसम विज्ञान केन्द्र, मौसम विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल मौसम, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HRTC : हमीरपुरतः चण्डीगढं यावत् द्वौ नूतनौ बसमार्गौ आरब्धौ
Next Article Himsanskritnews Headlines: विद्यालयीय-छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?