By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अहं ३५ वर्षाणि यावत् संघर्षं कृतवान्, अहं षड्यंत्रेभ्यः न बिभेमि
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अहं ३५ वर्षाणि यावत् संघर्षं कृतवान्, अहं षड्यंत्रेभ्यः न बिभेमि
हिमाचलवार्ता

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अहं ३५ वर्षाणि यावत् संघर्षं कृतवान्, अहं षड्यंत्रेभ्यः न बिभेमि

डॉ मनोज शैल
Last updated: 2024/03/15 at 9:16 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः – अहं ३५ वर्षाणि यावत् संघर्षं कृतवान्, अहं षड्यंत्रेभ्यः न बिभेमि

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः काङ्गड़ाजनपदस्य पालमपुरे विशालां जनसभां संबोधयन् पालमपुरे खण्डविकासाधिकारिण: (बीडीओ) कार्यालयपरिसरस्य एवं अतिरिक्त- जिलासत्रन्यायालयस्य कार्यालयस्य निर्माणाय पर्याप्तं धनं प्रदातुं  आश्वासितवान्। एतदतिरिक्तं पालमपुरे शहीदस्मारकस्य, पालमपुर-चिकित्सालये एमआरआइ-यन्त्रस्य, शल्यकक्षस्य च स्थापनाया:, नगरस्य मलनिकासी-योजना, ओबीसी-भवनस्य विस्तारस्य, पालमपुर-बस-स्थानकस्य च कृते पर्याप्तं धनं प्रदातुं घोषणां कृतवान् । 

मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भविष्ये पालमपुरक्षेत्रे पर्यटनक्रियाकलापानाम् प्रचारार्थं अधिकाधनराशिः व्ययिता भविष्यति, यस्य प्रारूपं सज्जीकृतम् अस्ति तथा च आगामिषु काले पालमपुरस्य परिदृश्यं परिवर्तयितुं गच्छति। सः अवदत् यत् राज्ये काङ्ग्रेससर्वकारस्य निर्माणात् आरभ्य काङ्गड़ामण्डलस्य विकासः विशेषप्राथमिकता अस्ति, अस्मिन् दिशि बहवः योजनाः क्रियन्ते। पर्यटनस्य प्रचारार्थं काङ्गड़ा- विमानस्थानकस्य विस्तारः क्रियते।

मुख्यमन्त्री उक्तवान् यत् राज्यसभानिर्वाचनकाले षट् काङ्ग्रेसविधायकाः विद्रोहं कृत्वा पारमतदानं कृतवन्तः। तेषु काङ्गड़ामण्डलस्य एकः नेता अपि अन्तर्भवति, यः स्वयं सर्वकारे मन्त्री आसीत्, युवाकाङ्ग्रेसस्य महासचिवः च आसीत्, परन्तु सः दलस्य उपरि आघातं कृतवान् सः अवदत् यत् केचन जनाः सत्तां विना संघर्षं कुर्वन्ति, अहं तु ३५ वर्षाणि यावत् संघर्षं करोमि, सः षड्यंत्रेभ्यः न बिभेति। विश्वासस्य उल्लङ्घनं कुर्वन्तः जनाः कदापि न क्षमिष्यन्ति इति सः अवदत्।

मुख्यमंत्री अवदत् यत् “वर्तमानः राज्यसर्वकारः भ्रष्टाचारस्य निवारणं कृत्वा सामान्यजनस्य विश्वासाय धनस्य व्यवस्थां करोति, यदा तु केचन जनाः धनं व्यययित्वा मुख्यमन्त्री-आसने उपवेष्टुं इच्छन्ति। एतादृशाः जनाः जनसामान्यं प्रति का सेवां करिष्यन्ति ? अद्य यदि अहं मुख्यमन्त्री अभवम् तर्हि जनानां शक्तिः एव। हिमाचलप्रदेशस्य जनाः धनेन, शक्तिद्वारा च सत्तां इच्छन्तः कदापि न क्षमिष्यन्ति। वर्तमानसर्वकारः पूर्णपञ्चवर्षपर्यन्तं जनसेवां करिष्यति, पूर्णतया निष्ठापूर्वकं कार्यं करिष्यति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Cm Sukhu, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, HPCM, hpgovt, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मण्डी शिवधाम-परियोजनां सर्वकारः सम्पन्नं करिष्यति, ३३ कोटि ४४ लक्षरूप्यकाणां निविदा अनुमोदिता – रघुवीरसिंहबाली
Next Article 16th Finance Commission:  हिमाचलतः प्रवासं प्रारभते १६ तमः वित्तायोगः, लोकसभानिर्वाचनानन्तरं शिमलाम्  आगमिष्यति अरविंद पनगढिया
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?