By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा
हिमाचलवार्ताधर्मसंस्कृतिः

Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा

डॉ मनोज शैल
Last updated: 2024/03/08 at 10:22 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Mandi Shivratri Festival: लघ्वीकाश्यां मण्ड्यां निसृता शिवरात्रिमहोत्सवस्य लघ्वीशोभायात्रा, बाबा भूतनाथाय शिवरात्रिमेलापकस्य  आमंत्रणम्

हिमसंस्कृतवार्ता- मण्डी। 

शुक्रवासरे महाशिवरात्रिमहोत्सवस्य शुभावसरे मण्डीजिलाप्रशासनेन लघ्वीकाश्यां मण्ड्यां लघ्वीशोभायात्रा निसृता, बाबाभूतनाथाय च औपचारिकरूपेण अन्तर्राष्ट्रीयशिवरात्रिमेलायां आमन्त्रणं च दत्तम्। यत् ९ मार्चतः मण्डीनगरे आरभ्यते। मेलासमितेः अध्यक्षः उपायुक्तः अपूर्वदेवगनः स्वपत्न्या श्वेताकुमार्या सह राजदेवताश्रीमधवरायस्य पक्षतः बाबाभूतनाथस्य द्वारं शिवरात्रिमेलायां निमन्त्रणार्थम् आगतवान्। अस्मिन् अवसरे सः भूतनाथमन्दिरस्य अर्चनां कृतवान्। उपायुक्तस्य नेतृत्वे अन्ये गणमान्यजनाः देवमाधवरायस्य मन्दिरात् पूर्णराज्यसम्मानेन भूतनाथमन्दिरपर्यन्तं लघ्वीशोभायात्रा पुलिसदलेन, होमगार्डवाद्यदलेन सह मण्डीमण्डलस्य केचन राजदेवताभिः सह भागं गृहीतवन्तः। अस्मिन्नवसरे नगरनिगमस्य महापौर: वीरेन्द्रभट्ट:, पार्षदा:, सर्वदेवतासमाजसमिते: अध्यक्ष: शिवपालशर्मा, अन्ये प्रतिनिधय:, अतिरिक्त: उपायुक्त: रोहित राठौर:, अतिरिक्त: जिलादण्डाधिकारी डॉ. मदनकुमार:, एसडीएम ओमकांत: ठाकुर:, नगरनिगमायुक्त: एच. एस.  राणा अन्याधिकारिणः, नगरवासिनः च उपस्थिताः आसन्।

शिवरात्रौ होमयज्ञस्य भव्यायोजनम्

राजदेवता माधवरायस्य प्राङ्गणे भव्यपारम्परिकस्य शिवरात्रिहोमयज्ञस्य आयोजनं कृतम्। उपायुक्त: अपूर्वदेवगनः स्वपत्न्या श्वेताकुमार्या, पुत्र: अश्वीतः, माता पूनमः, मण्डीजनवासिभि: च सह यज्ञे भागं गृहीतवन्तः। तदनन्तरं सर्वदेवतासमित्याः प्रतिनिधिभिः सह उपायुक्तेन राजमाधवरायमन्दिरे प्रार्थना कृता। शिवरात्रिमेलापकस्य  सफलायोजनाय  प्रशासनेन प्रार्थना कृता। एतदतिरिक्तं उपायुक्तेन दलेन सह माता तारणामन्दिरे अपि प्रणामं कृत्वा बृहद्देवस्य कामरुनागस्य पूजा कृता।

अन्तर्राष्ट्रीयमेलापके जनमानसः आमन्त्रितः

उपायुक्त: अपूर्वदेवगनः सर्वेभ्यः महाशिवरात्रे: शुभकामनाम् अददत्, मण्डीनगरस्य अन्ताराष्ट्रीयमेलायां दर्शनार्थम् च आमन्त्रितवान्। तेन उक्तं यत् अस्य स्थानस्य देवसंस्कृतेः समृद्धपरम्पराणां च महत्त्वं दत्त्वा विशेषतया मण्डीशिवरात्रिम् आचरामः। अस्मिन् कार्यक्रमे ९ मार्चतः १५ मार्चपर्यन्तं सामान्यजनं देवी-देवताभिः सह, तेषां सह सम्बद्धैः पवित्रपरम्पराभि:, समृद्धाभि: दिव्यसंस्कृतिभि: च सह सम्बद्धं कर्तुं विशेषं बलं भविष्यति।

मण्डी शिवरात्रौ आगतै: देवी-देवताभि: कृतं भव्यं नृत्यम्

मण्डीमहाशिवरात्रिपर्वण: कृते देवी-देवतानां आगमनं निरन्तरं वर्तते। शुक्रवासरे अनेके देवताः माधवरायस्य राजदेवतायाः दरबारं गतवन्तः। अस्मिन् काले देवानाम् भव्यनृत्यं, देवसमागमं च दृष्ट्वा जनाः मुग्धाः अभवन्। माधवरायस्य राजदेवता स्वमन्दिरात् शिविकायां उपविष्टः प्रासादं प्राप्तवान्। राजा ओमेश्वरसेनः सर्वैः संस्कारैः सह शिवाकात: देवतां बहिर्निष्कास्य प्रासादे निर्मितासने देवतां उपावेशितवान्। अधुना एकैकशः सर्वे देवी-देवताः स्वसन्निधिचिह्नार्थम् अत्र आगच्छन्ति।

कुल्लूजनपदस्य देवता अनन्तबालुनागः १४४ वर्षाणाम् अनन्तरं मण्डीशिवरात्रिमहोत्सवे आगतः

कुल्लूमण्डलस्य देवता अनन्तबालुनागमण्डीं प्रायः १४४ वर्षेभ्यः परं शिवरात्रिपर्वार्थं शतशः भक्तैः सह आगता। अस्मिन् समये भक्ताः पुष्पवृष्ट्या देवस्य स्वागतं कृतवन्तः।

सर्वदेवतासमिते: अध्यक्ष: शिवपालशर्मा  देवस्य पुष्पमालाभि: स्वागतं कृतवान्। तदनन्तरं सः राजदेवस्य माधोरायस्य पुरतः प्रादुर्भूतः। देवस्य स्तुतिभिः समस्तं क्षेत्रं प्रतिध्वनितम्।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

मकरसंक्रान्तेः फलम् (जनवरी 2026)

लोहडी उत्तरभारते प्रसिद्धः उत्सवः

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal Pradesh, himachal update, Mandi Shivratri, Mandi Shivratri Festival, Shivratri Festival, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Shivratri Festival : शिवस्य निनादै: शिवालयाः प्रतिध्वनिताः, महाशिवरात्रौ मन्दिरेषु विशालः जनसमूहः
Next Article पुनः परिवर्तते वातावरणं, हिमाचलसहितेषु अनेकेषु राज्येषु ११ मार्चतः १३ मार्चपर्यन्तं वर्षा, हिमपातः च भविष्यति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?