भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:।
हिमसंस्कृतवार्ता: युवराजभट्टराई।
भारतीय: रक्षासचिव: गिरिधर: अरामाने:, जर्मनरक्षामन्त्रालयस्य च राज्यसचिव: बेनेडिक्ट-जिमर:
विगते मंगलवासरे फरवरी-सप्तविंश्यां बर्लिन-नगरे भारत-जर्मनी उच्चरक्षासमिते: मन्त्रणोपवेशनस्य संयुक्ताध्यक्षता विहिता। अत्रान्तरे देशद्वयेनापि कार्यनीतिक-साहमत्यस्य रूपेण रक्षा-सहयोग-संवर्धने बलं प्रदत्तम्।
रक्षामन्त्रालयस्य अनुसारेण गिरिधर: अरमाने: बेनेडिक्ट जिमरश्च क्षेत्रीयस्थिति विषये मन्त्रणां कृतवन्तौ। सम्भावितरक्षा औद्योगिक-परियोजना-विषयेपि जाता: चर्चा:। अत्रान्तरे उभाभ्यामपि भारत-जर्मनी-रक्षोद्योगेषु साहमत्यं प्रकाशितम्। रक्षामन्त्रालयेन सूचितं यत् इंडो-पैसिफिक इति हिन्द-प्रशान्त-क्षेत्रे जर्मनी देशेन साकं संयुक्ताभ्यासविषये चर्चा: विहिता: सहैव सम्भावित-रक्षा-औद्योगिक-परियोजनानां विषये अपि वार्ताचिति: अभूत्। रक्षामन्त्रालयस्य मुख्यप्रवक्ता ए. भारत भूषण बाबू: प्रत्यपादयत् यत् उभयो: देशयो: “सम्बन्धान् सुदृढीकर्त्तुं रक्षासचिव गिरिधरारामाने: जर्मनीदेशस्य राज्यसचिव:, बेनेडिक्ट ज़िमर: च बर्लिननगरे भारत-जर्मनी समुच्चरक्षासमिते: उपवेशनं सफलं प्रतिपादितवन्तौ। द्वितीय-विश्वयुद्धस्य अनन्तरं जर्मनीदेशेन साकं राजनयिक-सम्बन्ध-स्थापकेषु देशेषु प्रथमं भारतमेव अवर्तत। 2021 तमे वर्षे, उभाभ्यां देशाभ्यां राजनयिक-सम्बन्धानां स्थापनाया: सप्ततितमी वर्षग्रन्थि: अपि मानिता ।
भारत-जर्मनी-देशयो: मध्ये रक्षासम्बद्धविषयेषु सम्पन्नं मन्त्रणोपवेशनम्, हिन्द-प्रशान्तक्षेत्रे सैन्याभ्यासस्य प्रस्ताव:

Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment