By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुल्लू-लाहौल-उपत्यकायाः उच्चक्षेत्रै: सहितं मनालीनगरे प्रचण्डहिमपातः, अटल-कन्दरा रोहताङ्ग निरुद्धा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > कुल्लू-लाहौल-उपत्यकायाः उच्चक्षेत्रै: सहितं मनालीनगरे प्रचण्डहिमपातः, अटल-कन्दरा रोहताङ्ग निरुद्धा
हिमाचलवार्ताप्रादेशिकवार्ता

कुल्लू-लाहौल-उपत्यकायाः उच्चक्षेत्रै: सहितं मनालीनगरे प्रचण्डहिमपातः, अटल-कन्दरा रोहताङ्ग निरुद्धा

डॉ मनोज शैल
Last updated: 2024/02/20 at 9:28 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

कुल्लू-लाहौल-उपत्यकायाः उच्चक्षेत्रै: सहितं मनालीनगरे प्रचण्डहिमपातः, अटल-कन्दरा रोहताङ्ग निरुद्धा

हिमसंस्कृतवार्ता- कार्यालयीय: प्रतिनिधि:।

हिमाचलप्रदेशे रक्तसचेतनाया: मध्ये उच्चपर्वतक्षेत्रेषु प्रचण्डहिमपातः अभवत्। अटलकन्दरायां रोहताङ्गे जलोड़ीदर्रा इत्यत्र च हिमपातेन यातायातस्य गतिः स्थगिता अस्ति। लाहौल-स्पीतौ मंगलवासरस्य बुधवासरस्य च कृते शैक्षणिकसंस्थानि पिहितानि  सन्ति। राजधान्या: शिमलाया:, धर्मशालाया: च सहितं राज्यस्य अधिकांशेषु निम्नक्षेत्रेषु सोमवासरे अपराह्ने प्रतिघण्टां ४० तः ५० किलोमीटरगत्या वायुवेग: अभवत्। मनालीनगरे वर्षा अभवत्। नेहरूकुण्डे हिमपातकारणात् यातायातस्य सम्मर्द: आसीत्। काङ्गड़ामण्डले धौलाधारपर्वतेषु अपि हिमपातः अभवत्। चम्बा, कुल्लू, शिमलामण्डलेषु अपि अनेकेषु स्थानेषु वर्षा अभवत्। सेबस्य कृते हिमपातः गोधूमस्य कृते वर्षा च साधु मन्यते। अधुना रक्तांकस्य, शिमलामरीचिकाया:  च वपनस्य समयः अस्ति। पाङ्गी आदिवासीक्षेत्रस्य ४२ मार्गै: साकं मण्डले आहत्य ४४ मार्गेषु हिमपातेन वर्षाणा च कारणेन वाहनानां चक्राणि निरुद्धानि सन्ति। तस्मिन् एव काले मण्डलस्य ३०० ग्रामेषु विद्युत् विफलता वर्तते।

अटलकन्दराया: दक्षिणद्वारे प्रायः ३० सेंटीमीटर पर्यन्तं हिमपातस्य कारणेन गमनागमनं निरुद्धम् अस्ति। आनी-कुल्लू राजमार्गः-३०५ जालोरी-दर्रा इत्यत्र अवरुद्ध: अस्ति। उपायुक्तः लाहौल-स्पीति राहुल कुमारः प्रचण्डहिमपातस्य सचेतनाम् अवलोक्य उपमण्डलस्य केलाङ्गस्य उदयपुरस्य च सर्वाणि शैक्षणिकसंस्थानि २०, २१ फरवरी दिनाङ्केषु पिहितं स्थापयितुं निर्णयं कृतवान्। हिमपातस्य कारणेन अनेकेषु क्षेत्रेषु हिमशैलानां स्खलनस्य संकट: वर्तते । एतावता लाहौल उपत्यकायां ३० तः ६० सेंटीमीटरपर्यन्तं हिमपातः अभवत्। सीमामार्गसङ्गठनस्य मेजर रविशङ्करः अवदत् यत् स्तीङ्गरीतः तान्दीशून्यबिन्दुपर्यन्तं मार्गः पुनः स्थापितः।

मनालीनगरस्य नेहरूकुण्डे हिमपातकारणात् सम्मर्द:

मनालीनगरे हिमपातस्य मध्यं यातायातस्य सम्मर्दस्य कारणेन पर्यटकानां समस्याः वर्धिताः। पर्यटकसङ्ग्रहात् नेहरूकुण्डे, पलचाने, सोलङ्गनालायां च सम्मर्द: अभवत्। अस्य कारणात् पुलिसस्य समस्याः अपि वर्धिताः। अतिरिक्तसैनिकानाम् नियुक्तेः अनन्तरं यातायातस्य सम्मर्दस्य कारणेन जनानां मध्ये आक्रोशः वर्तते। सम्मर्दस्य कारणेन स्थानीयजनाः अपि व्याकुलाः सन्ति। अस्य ऋतो: द्वितीयः हिमपातः पर्यटनस्थले मनालीनगरे अभवत्। यतः हिमपातः आरब्धः तदा पर्यटकानां पर्यटनव्यापारिणां च मुखम् उज्ज्वलं जातम्।

You Might Also Like

शिक्षणक्षेत्रे उल्लेखनीयस्य योगदानस्य हेतुना प्राध्यापकः डॉ. चिरागः हेमन्तकुमारः पुरोहितः विशेषसम्मानेन पुरस्कारैश्च अलङ्कृतः

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, Himachal news, Himachal Pradesh, himachal update, Himsanskritnews, Meteorological Centre, Meterological Department
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विश्वधरोहरे कालका-शिमला-रेलमार्गे हाइड्रोजनेन प्रचलिष्यति रेलयानम्
Next Article इन्दिरागांधी- आयुर्विज्ञानमहाविद्यालये आरकेएस- कर्मचारिणां कार्यस्थगनान्दोलनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?