By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मुंगेलीव्यापारमेला- उपमुख्यमन्त्री अरुणसावमहोदयेन व्यापारमेलायाः कृतम् उद्घाटनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > छत्तीसगढवार्ताः > मुंगेलीव्यापारमेला- उपमुख्यमन्त्री अरुणसावमहोदयेन व्यापारमेलायाः कृतम् उद्घाटनम्
छत्तीसगढवार्ताः

मुंगेलीव्यापारमेला- उपमुख्यमन्त्री अरुणसावमहोदयेन व्यापारमेलायाः कृतम् उद्घाटनम्

डॉ.अमनदीप शर्मा
Last updated: 2026/11/28 at 7:22 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

मुंगेलीव्यापारमेला- उपमुख्यमन्त्री अरुणसावमहोदयेन व्यापारमेलायाः कृतम् उद्घाटनम्
मुंगेलीस्य तिहारस्य भव्यः शुभारम्भः—उपमुख्यमन्त्री अरुण साव महोदयेन व्यापारमेलायाः उद्घाटनम्, सप्तदिनानि यावत् मनोरञ्जनस्य संस्कृतेश्च समागमः, गरिमा दिवाकर-सुवर्णा दिवाकरयोः सांस्कृतिकप्रस्तुतीः द्रष्टुं जनसमूहः समुपस्थितः।
संस्कृत वार्ताहार: डॉ रामबाबू मिश्र
मुंगेली। नगरस्य गौरवम्, जनानां हृदयेषु च विशिष्टं स्थानं प्राप्तः बहुप्रतीक्षितः मुंगेलीव्यापारमेला शुक्रवासरे, नवम्बरमासस्य सप्तविंशतितमे दिनाङ्के प्रारब्धः। नगरस्य तिहाररूपेण प्रसिद्धः अयं मेला नवम्बरमासस्य सप्तविंशतितमदिनाङ्कात् दिसम्बरमासस्य तृतीयदिनाङ्कपर्यन्तं नगरस्य शहीद धनञ्जयसिंह राजपूत क्रीडाङ्गणे, बी.आर. साव विद्यालयपरिसरे आयोज्यते। मेलायाः उद्घाटनावसरे प्रदेशस्य उपमुख्यमन्त्री श्री अरुण साव महोदयः, जनप्रतिनिधयः, सामाजिकराजनैतिकक्षेत्रस्य प्रमुखजनाः च गरिमामयीं उपस्थितिं दत्तवन्तः।
व्यापारमेलायाः प्रथमदिने विधिवत् पूजाऽर्चनया कार्यक्रमस्य शुभारम्भः अभवत्। प्रदेशस्य उपमुख्यमन्त्री श्री अरुण साव महोदयः अन्ये अतिथयः च सर्वप्रथमं भगवान् श्रीगणेशम्, मातरं सरस्वतीं, छत्तीसगढ़मातरं च पूजयित्वा दीपप्रज्वलनं कृतवन्तः तथा च मेलायाः सफलायोजनाय शुभकामनाः प्रार्थितवन्तः। धार्मिकसांस्कृतिकपरम्परानुसारं सम्पन्नः अयं शुभारम्भः आयोजनस्य गरिमामयं स्वरूपं प्रदत्तवान्।

मुंगेलीस्य परिचयरूपेण प्रतिष्ठितः व्यापारमेला
मुंगेलीव्यापारमेला अधुना केवलं क्रयविक्रयस्य आयोजनं नास्ति, अपितु नगरवासिनां कृते उत्सवस्य, मिलनस्य, मनोरञ्जनस्य च महत्त्वपूर्णः अवसरः अभवत्। प्रतिवर्षम् अस्य मेलायाः प्रतीक्षा जनैः उत्सुकतया क्रियते। नगरवासिनां समीपस्थग्रामीणक्षेत्राणां च जनानां कृते अयं मेला आकर्षणस्य केन्द्रं भवति। अत्र व्यापारिकक्रियाकलापैः सह विविधोत्पादानां, आपणानां, मनोरञ्जनसम्बद्धानां कार्यक्रमाणां च आनन्दं प्राप्तुं अवसरः प्राप्यते।

सप्तदिनात्मकस्य अस्य आयोजनस्य कारणेन नगरे उत्सवमयः वातावरणः निर्मितः भवेत्, स्थानीयव्यापारिकक्रियाकलापानाम् अपि प्रोत्साहनं प्राप्येत इति अपेक्षा अस्ति। व्यापारीणां, आपणिकानां, सामान्यनागरिकाणां च कृते अयं मेला एकः सामूहिकमञ्चः अस्ति, यत्र व्यापारस्य सह सामाजिकसहभागिता, परस्परं मेलमिलापः च प्रोत्साहितः भवति।

जनप्रतिनिधीनां गणमान्यनागरिकाणां च उपस्थितिः
शुभारम्भसमारोहे नगरपालिकाध्यक्षः श्री रोहित शुक्लः, भाजपाजिलाध्यक्षः श्री दीनानाथ केशरवानी, प्रेसक्लबाध्यक्षः श्री अनिल सोनी, नगरपालिकायाः पूर्वाध्यक्षः श्री शैलेश पाठकः, नगरपालिकायाः उपाध्यक्षः श्री जयप्रकाश मिश्रा, जनपदाध्यक्षः श्री रामकमल सिंह ठाकुरः, पूर्वजनपदोपाध्यक्षः श्री शिवप्रताप सिंहः, वरिष्ठभाजपानेता श्री प्रेम आर्यः, श्री गिरीश शुक्लः, विपक्षनेता श्री मोहन मल्लाहः, एल्डरमैन श्री संजय वर्मा, एल्डरमैन श्री अमितेश विज्जू आर्यः, वरिष्ठ अधिवक्ता श्री रविन्दर सिंह छाबड़ा, श्री राजेन्द्र वैष्णवः, श्री मोहन भोजवानी, एल्डरमैन डॉ. लेखु साहू, श्री खेमराज मोहले, श्री अशोक मंगलानी, श्री संजीव गुप्ता, श्री आशीष मिश्रा, श्री तुलजा लेडवानी, श्री कैलाश रोहरा इत्यादयः अनेकाः गणमान्यनागरिकाः उपस्थिताः आसन्।

स्टार ऑफ टुमारो समित्या आयोजनस्य दायित्वं निर्वहितम्
अस्य भव्यस्य आयोजनस्य आयोजकायाः स्टार ऑफ टुमारो समितेः संयोजकः श्री रामपाल सिंह ठाकुरः, सहसंयोजकः श्री रामशरण यादवः, अध्यक्षः श्री महावीर सिंह ठाकुरः, सचिवः श्री विनोद यादवः तथा समितेः सदस्याः उपस्थिताः आसन्। आयोजनसमित्या व्यापारमेलां सफलां आकर्षकां च कर्तुं विविधाः व्यवस्थाः कृताः।
मुंगेलीवासिनां उत्साहपूर्णसहभागितया प्रारब्धः अयं व्यापारमेला आगामी दिसम्बरमासस्य तृतीयदिनाङ्कपर्यन्तं नगरे उत्साहं, उल्लासं, चैतन्यं च प्रसारयिष्यति। सप्तदिनात्मकः अयं कार्यक्रमः व्यापारस्य, मनोरञ्जनस्य, सामाजिकैकतायाः च माध्यमेन मुंगेलीस्य उत्सवीयपरम्परायाः पुनः नवीनां प्रतिष्ठां स्थापयिष्यति इति आशा अस्ति।

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article मोहनजोदडो-अन्वेषणे राखालदासबनर्जीवर्यस्य योगदानम् अविस्मरणीयम् – डॉ. फणिकान्तमिश्रः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?