जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता
वार्ताहर: -डॉ. नरेन्द्र राणा
Online संस्कृतशिक्षणम् आमुखपटलसमूहे जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। गतदिवसे सोमवासरे प्रयागराज-उत्तरप्रदेशात् आराध्य विष्णु महोदयस्य इत्यस्य जन्मदिवसोपलक्ष्ये उत्तराखंडात् संस्कृतरसास्वाद-संस्था द्वारा एका-विशेषा-प्रतियोगिताया: आयोजनम् अमवत् । संस्कृत-प्रश्नोत्तरी प्रतियोगितायामस्यां राजस्थानत: कुलदीप चौरसिया प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थानम् आकाश आर्य: उत्तराखंडात्, तृतीय-स्थाने च उत्तरप्रदेशत: साधना गुप्ता, चतुर्थ-स्थानं राजस्थानत: कवि-महावीर शर्मा “सरस”, पञ्चम-स्थानं सरिता जेना ओडिशात: वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजकौ आनन्द विष्णु: एवं डॉ. दीप्ति विष्णु:, आयोजकश्च गुजरातत: राष्ट्रीय संस्कृत प्रचारक: जगदीश डाभी आसीत्। ध्यातव्यं वर्तते यद् Online संस्कृतशिक्षणम् द्वारा प्रतिरविवासरे ऑनलाइन संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृत रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं दस्यति ।