दीपकुमारः संस्कृतशिक्षकपरिषदः काङ्गडा अध्यक्षः अनुषोपाध्यायः महासचिवः
धर्मशाला, 22 जून (ब्यूरो) : संस्कृत-शिक्षक-परिषद् जिला कांगड़ा इत्यस्य निर्वाचनं रविवासरे शासकीय वरिष्ठ माध्यमिकविद्यालये कानेड धर्मशाला इत्यत्र सम्पन्नम्। अस्मिन् अवसरे परिषदः पूर्वजिल्लााध्यक्षः डॉ. अमनदीपशर्मा विगतत्रयवर्षस्य विवरणं प्रस्तुत्य निष्पक्षरूपेण नूतनकार्यकारिणीनिर्माणस्य प्रस्तावम् अयच्छत् यस्मिन् सर्वसम्मत्या शासकीयमाध्यमिकविद्यालयबडाई इत्यस्य संस्कृतशिक्षकः दीपकुमारः सर्वसम्मत्या जिल्लायाः नूतनाध्यक्षत्वेन निर्वाचितः। अस्मिन्नावसरे शासकीय-वरिष्ठ-माध्यमिक-विद्यालयः जिया इत्यस्य संस्कृतशिक्षकः अनुष उपाध्यायः जिला महासचिवः, शासकीय उच्च विद्यालयः हरेड इत्यस्य संस्कृतशिक्षकः अमरसिंहः कोषाध्यक्षः निर्वाचितः। शासकीय-वरिष्ठ-माध्यमिक-विद्यालयः सिधपुरस्य अजयशर्मा जिला मीडिया प्रभारी निर्वाचितः। एतादृशौ स्थितौ निर्वाचनाधिकारिणौ मनीषव्यासस्य, पर्यवेक्षकविशालशास्त्री इत्यनयोः अध्यक्षतायां निर्वाचनस्य सम्पूर्णा प्रक्रिया कृता । परिषदः चयनप्रक्रियायां शासकीयमाध्यमिकविद्यालयः भरमातस्य शास्त्री पुनीत शर्मा जिला संगठनमंत्री, शासकीय-माध्यमिक-विद्यालयः कठियारा इत्यस्य शास्त्री अमन शर्मा वरिष्ठ उपाध्यक्षः निर्वाचितः। राज्य कार्यकारिण्याः कृते डॉ. अमनदीप शर्मा , कुंदनशर्मा, पंकजशर्मा, नामांकितौ। अस्यां निर्वाचनप्रक्रियायां जनपदस्य प्रायः त्रिंशत् संस्कृतशिक्षकाः भागं ग्रहीतवन्तः येषु विशेषतया पालमपुरतः पंकज शर्मा, बैजनाथतः अनुष कौलः, धर्मशालातः विशाल चौधरी, रक्कडतः संजीवकुमारः, काङ्गडातः सुनीता देवी, तकीपुरतः पुष्पा देवी, सम्लोटीतः चन्द्ररेखा, नगरोटातः जोगिन्दरसिंहः, विनयशास्त्री, अजयकुमारः, मनोजकुमारः इत्यादयः उपस्थिताः आसन्।
दीपकुमारः संस्कृतशिक्षकपरिषदः काङ्गडा अध्यक्षः अनुषोपाध्यायः महासचिवः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
