संस्कृतभारत्या: आवासीयप्रबोधनवर्ग: सम्पन्नः – संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्
हिमसंस्कृतवार्ताः- कुलदीपमैन्दोला। मेरठं।
संस्कृतभारती-पश्चिमोत्तरप्रदेशक्षेत्रस्य बालेरामब्रजभूषणसरस्वतीशिशुमन्दिरे, शास्त्रीनगरमेरठमध्ये “आवासीयप्रशिक्षणवर्गस्य” समापनसमारोह: भव्यरूपेण सफलतया सम्पन्नः। अयं वर्ग: केवलं संस्कृतभाषायाः प्रचारप्रसाराय न, अपि तु भारतीयसंस्कृतेः, संगठनकार्यपद्धतेः, च संस्कृत्या राष्ट्रनिर्माणस्य च गम्भीरविषयेभ्यः समर्पित: आसीत्।अस्मिन् सन्दर्भे मेरठ-ब्रज-उत्तराखण्डप्रान्तेभ्यः आगतानां समर्पितकार्यकर्तृणां प्रेरणादायिनी उपस्थिति: सम्पूर्णं वातावरणं हर्षपूर्णं ऊर्जायुतं च कृतवती।
८ जून २०२५ तः आरभ्य २१ जून २०२५ पर्यन्तं चलिते अस्मिन् वर्गे २२ स्थलेभ्यः आगता: १०५ जना: संस्कृतभाषायां संवादं कर्तुं नियमितम् अभ्यासं कृतवन्तः। प्रातःकालचतुर्वादनात् आरभ्य रात्रौ दशवादनपर्यन्तं सततं संस्कृतभाषायां भाषणं शिक्षणं च प्रशिक्षणार्थिभिः कृतम्।
अस्मिन् वर्गे शिक्षकरूपेण प्रभाकरमणित्रिपाठी, गिरीशतिवारी, कुलदीपमैन्दोला, तरुण:, गणशिक्षकः आकाश:, रंगराजन:, विनीत:, रुद्र:, सन्तोष:, अंकित:, वीरेन्द्र:, नीलकमल:, पूनमवर्या, राजमणिः, नीरज:, सन्दीपकुमार:, अर्जुन: इत्येते शिक्षायै च व्यवस्थायै च सहयोगं कृतवन्तः।
वर्गस्य मार्गदर्शनार्थं संस्कृतभारत्याः विभिन्नपदाधिकारिण: समये समये आगत्य विविधेषु विषयेषु स्वविचारं प्रस्तुतवन्त: ।
एकता-विषये श्रीशदेवपुजारी-महोदयः सारगर्भितं भाषणं कृत्वा अवदत् —”एकता एव समाजस्य शक्ति:। संस्कृतभाषा अस्याः एकतायाः आधाररूपेण वर्तते।”
संगठन-कार्यविषये जयप्रकाश-महोदयेन उक्तम् —
“संगठनेनैव समाजस्य उत्थानं साध्यते। यदा वयं संगठिताः भवाम:, तदा राष्ट्रनिर्माणस्य प्रक्रिया सुदृढा भवति।”
योग-विषये प्रेमचन्द्रशास्त्री-महोदयेन उक्तं —
“योगः भारतीयसंस्कृतेः अमूल्यं दानम् अस्ति। सः केवलं शारीरिकव्यायामः न, अपि तु आत्मा-परमात्मन: मिलनस्य मार्गः अपि अस्ति।”
संस्कृतस्य महत्वे श्रीराम-महोदयेन निगदितम् —
“संस्कृतं केवलं भाषा न, अपि तु भारतस्य चेतना च विज्ञानस्य मूलधारा च अस्ति। अस्याम् एव विज्ञानम्, गणितम्, व्याकरणम्, चिकित्सायाः ज्ञानम्, तथा आध्यात्मिकविचाराः अपि समाहिताः सन्ति।”
समापन-सत्रे अखिलभारतीय-शिक्षणप्रमुखः श्रीराम-महोदयः प्रेरणादायकं भाषणं दत्त्वा उक्तवान् —
“संस्कारैः, समर्पणेन च संस्कृतभाषया सह राष्ट्रस्य च विश्वस्य च कल्याणं सम्भाव्यते। एषा भाषा अस्मान् स्वमूलम् उपनयति, जीवनं च सुसंस्कृतं करोति।”
वर्गे क्षेत्रीय-संगठनमन्त्री श्रीदेवेन्द्रपण्ड्या-महोदयेन कार्यकर्तॄन् सम्बोध्य एवमुक्तम् —”संस्कृतभाषा केवलं भाषा न, किन्तु भारतस्य आत्मा एव। अस्याः पुनरुत्थानेन राष्ट्रस्य वास्तविकम् उत्थानम् सम्भवम्।”
कार्यक्रमस्य गरिमावृद्ध्यर्थम् संस्कृतभारत्याः मेरठ-प्रान्त-अध्यक्षः आचार्यः श्रीवाचस्पतिमिश्र-महोदयः, प्रान्त-संगठनमन्त्री (मेरठत:) श्रीयोगेशविद्यर्थी-महोदयः, प्रान्त-संगठनमन्त्री (उत्तराखण्डत:) श्रीगौरवशास्त्री-महोदयः,
व्रजप्रान्तत: गौरव:,वर्गाधिकारी श्रीराजगोपालकात्यायनवर्य:, प्रशिक्षणप्रमुखः श्रीरामः महोदयः च अपि स्वविचारान् प्रस्तुतवान्।अस्मिन् विशेषसन्दर्भे प्रधान-आर्यसमाज-मेरठत:- श्रीराजेशसेठीवर्य:, वरिष्ठ-चिकित्सकः डॉ. विश्वजीत्-बैम्बी, मेरठ-दक्षिण-संयोजकः श्रीराहुलगुप्त-महोदयः, मण्डल-अध्यक्षः श्रीललित-मोरल-महोदयः, श्रीआकाशशर्मा-महोदयः, श्रीनरेन्द्रकुमार-महोदयः, डॉ. अरविन्दनारायण-महोदयः अन्ये च बहवः गणमान्य-नागरिकाः समाजसेविनश्च सादरम् उपस्थिताः आसन्।