By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Unesco- शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Unesco- शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः
हिमाचलवार्ताराष्ट्रीयवार्ताः

Unesco- शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः

डॉ.अमनदीप शर्मा
Last updated: 2025/03/27 at 7:51 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

हिमाचलप्रदेशे शिक्षायां गुणवत्तावर्धनार्थं सर्वकारेण मुख्यमन्त्रिणः उपस्थितौ यूनेस्को-संस्थया सह सन्धिपत्रे हस्ताक्षरः कृतः
हिमसंस्कृतवार्ता: शिमला। हिमाचलप्रदेशे गुणवत्तायुक्तशिक्षायै प्रदेश-सर्वकारेण संयुक्तराष्ट्रस्य शैक्षिक-वैज्ञानिक-सांस्कृतिक-संस्थया (यूनेस्को) सह सन्धिपत्रे हस्ताक्षरः कृतः। मुख्यमंत्री सुखविन्द्रसिंहसुक्खू-महाभागस्य उपस्थितौ प्रदेश-सर्वकारस्य पक्षतः शिक्षा-सचिवः राकेशकंवर-महाभागः, यूनेस्को-संस्थायाः पक्षतः निदेशक-प्रतिनिधिः टिमकर्टिस-महाभागः तथा शिक्षणकार्यक्रम-विशेषज्ञा जॉयसपोआन-महाभागा च इत्येते हस्ताक्षरं कृतवन्तः।
अस्मिन सन्धिपत्रेण यूनेस्को-संस्था हिमाचलप्रदेशस्य शिक्षा-क्षेत्रस्य आधुनिकीकरणे साहाय्यम् दास्यति, यस्य अन्तर्गतं शिक्षा-पद्धतीनां सुदृढ़ीकरणं, पाठ्यक्रम-निर्माणं, शिक्षणप्रशिक्षणं, मूल्यांकनप्रणाली च समाविष्टानि। विद्यार्थीजनानाम् २१वीं शताब्द्याः कौशल-निर्माणं कृत्वा तेषां सृजनात्मकता, सहयोगः, संचारशक्तिश्च विकसिष्यन्ति। शिक्षा समावेशी, सतत्, भविष्योन्मुखी च भविष्यति। सन्धिपत्रान्तरम् अन्तर्गतं ग्रीन-एजुकेशन-प्रयोजनं विशेषरूपेण प्रोत्साहितं भविष्यति। पर्यावरण-जागरूकता सतत-विकास-संयुक्तं पाठ्यक्रमेषु स्थापितं भविष्यति, यथा छात्राः पर्यावरणसम्बद्धाः समस्याः सुलभतया परिहर्तुं शक्नुयुः। तदनुसारं, क्रीडायाः समावेशः कृत्वा नैतिक-मूल्याधारितशिक्षा प्रदास्यते, येन छात्राणां समग्रविकासः सुनिश्चितः भविष्यति। मुख्यमन्त्रिणा उक्तं यत् सर्वकारः डिजिटल-शिक्षायाः विस्तारं कृत्वा सर्वकारीविद्यालयान् स्मार्ट-विद्यालयेषु परिवर्तयति। हिमाचलप्रदेशस्य दुर्गम-प्रदेशेषु गुणवत्तायुक्त-शिक्षा प्रदीयते। सर्वकारेण गतद्वयवर्षेषु शिक्षाक्षेत्रे बहवः सुधारात्मकाः उपायाः कृताः, येषां सकारात्मकाः परिणामाः दृश्यन्ते। एतेन सम्ज्ञापत्रेण शिक्षा-मन्त्री रोहितठाकुर-महाभागेन उक्तं यत् सर्वकारः भविष्याधारित-कौशलं, वैश्विकस्तरीय-शिक्षां च सुनिश्चितुं कटिबद्धा अस्ति। उच्च-शिक्षा-निदेशकः डॉ. अमरजीतशर्मा, प्रारम्भिक-शिक्षा-निदेशकः आशीषकोहली च अन्ये गणमान्याः अपि उपस्थिताः आसन्।
मुख्यमन्त्रिणा “संभव” त्रैमासिक-पत्रिकायाः शुभारम्भः कृतः
शिमला-नगरस्य राज्य-सचिवालये मुख्यमन्त्रिणा सुखविन्द्रसिंहसुक्खू-महाभागेन समग्रशिक्षा-हिमाचलस्य त्रैमासिक-पत्रिकायाः “संभव” शुभारम्भः कृतः। मुख्यमन्त्रिणा उक्तं यत् एषा पत्रिका सर्वकारस्य शिक्षाक्षेत्रे कृतानां प्रयासानां सफलतानां च दर्पणं भविष्यति।”संभव” पत्रिकायाः माध्यमेन शिक्षकों छात्राणां च कृते कार्यशालाः, संगोष्ठयः, अन्यानि शिक्षणसम्बद्ध-कार्यक्रमाः प्रचारिताः भविष्यन्ति। शिक्षण-तकनीकी-नवाचारानां प्रचारं शिक्षण-पद्धतीनां परिष्करणं च अनेन साध्यं भविष्यति।
समग्रशिक्षा-निदेशकः राजेशशर्मा-महाभागेन उक्तं यत् “संभव” पत्रिका प्रदेशे शिक्षाक्षेत्रं नूतनदिशां दास्यति। शिक्षकाः प्रदेशे शिक्षासम्बद्ध-नवाचारानां ज्ञानं प्राप्य स्वविद्यालयेषु तस्य समुचितं प्रयोगं करिष्यन्ति। अस्मिन शुभारम्भ-समये शिक्षा-मन्त्री रोहितठाकुर-महाभागः, शिक्षा-सचिवः राकेशकंवर-महाभागः, उच्च-शिक्षा-निदेशकः डॉ. अमरजीतशर्मा, प्रारम्भिक-शिक्षा-निदेशकः आशीषकोहली च अन्ये अधिकारीगणः उपस्थिताः आसन्।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

रेणुकाक्षेत्रे दशवर्षान्तरं भूयः व्याघ्रस्य गर्जनं श्रुतम्, अक्तूबरमासस्य द्वितीयादिनादारभ्य पयर्टकाः द्रष्टुं शक्ष्यन्ति

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, Himachal news, यूनेस्को
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article लोकसभायाम् अनुमोदितं त्रिभुवन-सहकार-विश्वविद्यालय-विधेयकम्
Next Article उत्तरप्रदेशसंस्कृतसंस्थानस्य मार्चमासस्य प्रथमद्वितीयस्तरस्य ऑनलाइनसंस्कृतशिक्षणवर्गस्य बौद्धिकसत्रस्य मंगलवासरे समापनम् अभवत
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?