अमेरिकीय राष्ट्रपतिः ट्रम्पः यूक्रेनस्य राष्ट्रपतिः जेंलेस्की इत्यनयोः मध्ये विवादः विश्वे प्रमुखासु वार्तासु वर्तते
गतशुक्रवासरे अमेरिकादेशे राष्ट्रपतिः ट्रम्पः यूक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर-जेलेंस्की इत्यनयोः मध्ये वार्ता विवादेषु आगता अस्ति। ट्रम्पः अवदत् यत्, “जेलेन्स्की कोटि-कोटि-जनानाम् जीवनेन सह क्रीडति, भवान् यत् करोति तत् अस्य देशस्य अपमानजनकम् अस्ति, तदनन्तरम् उभयोः मध्ये विवादः जातः। अमरीकादेशः सूचितवान् यत् यूक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर-जेलेंस्की इत्येषः ओवल-ऑफिस इत्यत्र कार्यालये सञ्जाताय मौखिक-विवादाय राष्ट्रपतिः ट्रम्प इत्येनं याचनाम् अभियाचेत्। रूबियोइत्येतस्य इदं वक्तव्यं व्हाइट हाउस इत्यत्र अमरीकीय राष्ट्रपतिना डोनाल्डट्रम्प इत्यमुना उपराष्ट्रपतिना वेंसइत्येतेन सह जेलेंस्की इत्येतस्य विवादानन्तरम् समागतम्।
अमेरिकीय राष्ट्रपतिः ट्रम्पः यूक्रेनस्य राष्ट्रपतिः जेंलेस्की इत्यनयोः मध्ये विवादः विश्वे प्रमुखासु वार्तासु वर्तते
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
