प्रधानमन्त्रि-कृषक-सम्मान-निधि-योजनायाः एकोनविंशतितमं सहयोगं कृषकाणां धनपुटकेषु स्थापितम्
हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेद्र मोदी बिहारस्य भागलपुरतः प्रधानमन्त्रि-कृषक-सम्मान-निधि-योजनायाः एकोनविंशतितमं सहयोग-धनपुटकं प्रख्यापितवान्। एतस्याः योजनायाः अन्तर्गतं कृषकेभ्यः समान-पुटकत्व वार्षिकं षट् सहस्राणि रूप्यकाणि प्रदीयन्ते। अशेषे-देशे एक-त्रिंशदुत्तर-सप्त-शत-मितषु कृषि विज्ञान-केन्द्रेषु अपि कार्यक्रमाः आयोजिताः। येषु प्रायः सार्ध-द्वि-कोटि-मिताः कृषकाः प्रत्यक्षतया आभासीय माध्यमे च सम्मिलिताः आसन्। कार्यक्रमस्य विवरणं विनिमयीकुर्वन्, केन्द्रीय कृषि-कृषक-कल्याण-मन्त्री शिवराजसिंहः चौहानः प्रावोचत् यत् केन्द्रस्य राज्याणां च सर्वकाराणां योजनानां विषये जागरूकता-वर्धनार्थम् एतस्मिन् दिने कृषक-सम्मान समारोहः समाचरितः।
निखिलमपि विश्वं भारतं प्रति आशान्वितया दृष्टया पश्यति-प्रधानमन्त्री-वैश्चिक-निवेशिक-सम्मेलनम्
प्रधानमन्त्री नरेद्र-मोदी उक्तवान् यत् भारतस्य इतिहासे इदं प्रथमवारमस्ति यत् निखिलमपि विश्वं भारतं प्रति आशान्वितया दृष्ट्या पश्यति। भोपालनगरे ग्लोबल इन्वस्टर्स समिट इति वैश्चिक-निवेशक-सम्मेलनस्य शुभारम्भं कुर्वन् श्रीमोदी अवदत् यत् सर्वसाधारणाः, अर्थशास्त्रिणः, संस्थानानि च भारतम् प्रति आशान्विताः सन्ति। विश्वबैंकादारभ्य विश्वस्य सर्वाश्चापि प्रसिद्धाः महनीयाः संस्थाः भारतम् सर्वाधिकतीव्र गत्या विवर्धमानाम् अर्थव्यवस्थां प्रतिपादयन्तः सन्ति। श्रीमोदी प्रावोचत् यत् विश्वस्य अनेन विश्वासेन देशस्य राज्याणामपि आत्मविश्वासः वर्धितः अस्ति। सहैव डबल इंजन इति द्विगुणितशक्तियुतस्य सर्वकारस्य कारणेन विकासस्य गतिश्चापि द्विगुणिता जाता अस्ति। प्रधानमंत्री न्यगदत् यत् विकसित-भारत टैक्सिटाइल, टूरिज्म टेक्लोलॉजीति त्रीणि क्षेत्राणि सर्वाधिकानि महत्वपूर्णानि सन्ति । अनेन प्रोदितं यत् सर्वकारः न केवलं त्रिषु क्षेत्रेषु पारंपरिक कौशलं वर्धयति प्रत्युत एग्रो टेक्सिटाइल, जियो, मेडिकल-टेक्सिटाइल-सदृशेषु क्षेत्रेष्वपि कार्यं करोति। श्रीमोदी प्रोक्तवान् यत् मध्यप्रदेशे निवशीर्थं अयमेव सर्वोत्तमः समयः अस्ति, यतश्च एतद् राज्यं खनिजसंसाधनेन साकम् आधारिक संरचना-प्रकरणेषु अपि देशस्य शीर्ष राज्येषु समाविष्टं वर्तते।
प्रधानमन्त्रि-कृषक-सम्मान-निधि-योजनायाः एकोनविंशतितमं सहयोगं कृषकाणां धनपुटकेषु स्थापितम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
