By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बाइडेनप्रशासनम्-पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > बाइडेनप्रशासनम्-पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न
संस्कृतगतिविधयः

बाइडेनप्रशासनम्-पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न

डॉ.अमनदीप शर्मा
Last updated: 2024/12/07 at 7:05 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

बाइडेनप्रशासनम्-पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न
(ईदरधीरजः, हैदराबादः) पूर्वप्रतिबन्धात्मक-क्षमादानानि वर्तमानेभ्यः पूर्वतनेभ्यः अधिकारिभ्यः दीयमानानि वा न वा इति बय्डन-प्रशासनं विचाररतम् अस्ति। भयमस्ति यत् डोनाल्डट्रम्पस्य राष्ट्रपतिपदपुनर्ग्रहणेन तेषाम् अधिकारिणां राजनीतिप्रेरिताः विचारणाः भवेयुः। ट्रम्पेन कश्यपपट्टकिलस्य एफ़्बीऐशासितृरूपेण नियुक्तेः पश्चात् आन्तरिकचर्चेयम् आरब्धम्। नियुक्तिरियं भाविराष्ट्रपत्युः निन्दकान् शत्रून् च विरुध्य अभियोगान् निर्वोढुं सङ्केतः इव मन्यते।
श्वेतभवनस्य न्यायवादिनः एडसिस्केलस्य आध्यक्ष्ये निरूढायाः चर्चायाः विषयः आसीत् तान् व्यक्तीन् रक्षयितुम् ये ट्रम्पेन पदग्रहणात् निरूपणविधेयाः भवेयुः। क्षमादानाय विचारितेषु आदमषिफ़ः लिज़चेनेयः च इति पोलिटिकोप्रकाशनेन प्रकाशितम्। आदमषिफ़ः प्रजातान्त्रिकदलसदस्यः पूर्वसांसदः अपिच जनवरीमासस्य षष्ठे संसद्भवने सञ्जातस्य आक्रमणस्य विचारणार्थं समितिसदस्यः। लिज़चेनेयः तु तीव्रट्रम्पनिन्दिका पूर्वतनसांसदा गणतान्त्रिकदलसदस्या।
अन्यतमः तु आन्तनिफ़ौचि-वैद्यः राष्ट्रीय-अधिहृषता-सङ्क्रामकरोगचिकित्सा-संस्थायाः पूर्वाध्यक्षः यः ट्रम्पस्य ट्रम्पमित्राणां च निन्दपात्रम् आसीत् कोविड्-महामारीकाले। चिन्तायाः आधारः अस्ति यत् पूर्वं ट्रम्पेन राजनैतिकप्रतिपक्षः लक्षीकृतः अपिच ईदृशां व्यक्तीनां विचारणां कर्तुं ट्रम्पप्रशासनं समर्थम् अस्ति इति। विना अभियोगैः पूर्वप्रतिबन्धात्मक-क्षमादानानि तीव्र-राजनैतिक-प्रतिक्रियाम् आकर्षयति इति संभावना विद्यते यतोहि क्षमादानैः अपराधः वा अनैतिकता वा सूच्यते।
षिफ़ः इत्यादिनः केचन तु स्वचिन्तां प्रदर्शयन्तः कथितवन्तः यत् क्षमादानानि अपराधं सूचयन्ति। अयं विवादः सूचयति यत् गणतान्त्रिकदलस्य अन्तः वरिष्ठाः चिन्ताः विद्यन्ते यत् ट्रम्पः राजनैतिकप्रतिशोधं कर्तुं कियद्दूरं गच्छेत्। विधिज्ञाः श्वेतभवनसाहायकाः च बिभ्यति यत् केवलं विचारणाभर्त्सनानि आर्थिकपीडां व्याकुलतां च लक्ष्येभ्यः दातुं शक्नुवन्ति। सङ्घीयविचारणां सम्मुखीकर्तुं विधिसम्बन्धिशुल्काः अधिकाः।
क्षमादानानि संबन्ध्य विवादः बय्डन-राष्ट्रपतिना दत्तैः इतोऽपि कष्टतरः अभवत्। बय्डनः स्वपुत्राय करसम्बन्ध्यपराधान् संबन्ध्य क्षमादानं दत्तवान्। स्वकीये पूर्वप्रशासनकाले ट्रम्पेन विशेषतः षिफ़ः चेनेयः च लक्षीकृतौ। उभयोः निग्रहणार्थमपि ट्रम्पेन आग्रहः कृतः। कोविड्-काले तु विवादविषयकः भूतवान् फ़ौचिः प्रतिकारार्थं संप्रत्यपि अपि ट्रम्पसमर्थकानां संभाव्यं लक्ष्यम् अस्ति।
ईदृशानि क्षमादानानि दत्त्वा प्रभावाः के इति प्रश्नस्य उत्तरं संप्रतिप्रशासनम् अन्विच्छति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, दिव्य हिमाचल समाचार, बाइडेन, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article KKSU Ramtek : सीवेजशुद्धिकरणपरियोजनाया: भूमिपूजनं सम्पन्नम्
Next Article कालिदासकोलम्बकर इत्यमुना महाराष्ट्रविधानसभायाः प्रोटेम स्पीकर- रुपेण शपथग्रहणम् कृतम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?