By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Kinnaur News : किन्नौरे शीघ्रमेव हेलीपोर्ट् निर्मितं भविष्यति, क्रीडासङ्कुलस्य निर्माणमपि भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Kinnaur News : किन्नौरे शीघ्रमेव हेलीपोर्ट् निर्मितं भविष्यति, क्रीडासङ्कुलस्य निर्माणमपि भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ता

Kinnaur News : किन्नौरे शीघ्रमेव हेलीपोर्ट् निर्मितं भविष्यति, क्रीडासङ्कुलस्य निर्माणमपि भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/11/03 at 9:30 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Kinnaur News : किन्नौरे शीघ्रमेव हेलीपोर्ट् निर्मितं भविष्यति, क्रीडासङ्कुलस्य निर्माणमपि भविष्यति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता:- किन्नौरम्।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शनिवासरे सायं जनपदे किन्नौरे चतुर्दिवसीय राज्यस्तरीय किन्नौरमहोत्सवस्य समापनसमारोहस्य अध्यक्षता अकरोत्। सः अवदत् यत् अयं उत्सवः किन्नौरस्य पारम्परिक- सङ्गीत- नृत्य- कला- शैल्याः प्रतिबिम्बः अस्ति। मुख्यमन्त्री किन्नौरजनपदस्य जनान् किन्नौरस्य अद्वितीयपरम्पराणां संरक्षणाय, प्रोत्साहनाय च प्रशंसितवान्। सः अवदत् यत् एतादृशाः उत्सवाः न केवलं समुदायस्य एकीकरणं कुर्वन्ति अपि तु राज्यस्य समृद्ध- सांस्कृतिक- धरोहरस्य विषये जनान् अवगतं कुर्वन्ति। राज्यसर्वकारः राज्यस्य समृद्धसंस्कृतेः संरक्षणाय यथाशक्ति प्रयत्नः कुर्वन् अस्ति। सः अवदत् यत् सर्वकारेण आदिवासीक्षेत्राणां विकासाय, अत्रत्यानां जनानां सामाजिक- आर्थिक- उत्थानार्थं च विविधाः योजनाः प्रारब्धाः, किन्नौरे शीघ्रमेव हेलीपोर्ट्-निर्माणं भविष्यति। एतदतिरिक्तं मादकद्रव्याणां दुष्प्रभावात् अत्रत्यानां युनां रक्षणार्थं २८ कोटिरूप्यकाणां व्ययेन क्रीडासङ्कुलस्य निर्माणं क्रियते। सः अवदत् यत् राज्यसर्वकारः किन्नौरमण्डलस्य टापरीनगरे भूतापीप्रौद्योगिक्याः उपयोगेन विश्वस्य प्रथमं नियन्त्रितवायुमण्डलभण्डारणं (CA store) निर्माति। एतदर्थं आइसलैण्ड- हिमाचल- सर्वकारयोः मध्ये सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति। एतेन क्षेत्रस्य उद्यानपालकेभ्य: लाभः भविष्यति, तेषाम् अर्थव्यवस्था च सुदृढा भविष्यति। सः अवदत् यत् उद्यानक्षेत्रं सुदृढं कर्तुं राज्यसर्वकारेण सार्वभौमिकपेटिका: (यूनिवर्सल कार्टन) आरब्धा, यस्य अन्तर्गतं प्रतिकिलोग्रामस्य आधारेण उद्यानपालकेभ्य: सेबस्य क्रयणं क्रियते, यत् केवलं सर्वकारस्य सुशासनव्यवस्थायाः कारणेन एव सम्भवं जातम्। सः अवदत् यत् किन्नौरस्य निगुलसरीक्षेत्रे वर्षाकारणात् अधिकांशकालं मार्गः अवरुद्धः एव तिष्ठति। राज्यसर्वकारेण रिकाङ्गपियो इत्यस्य कृते वैकल्पिकमार्गनिर्माणार्थं ५ कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति येन क्षेत्रस्य निवासिनः असुविधायाः सम्मुखीकरणं न कुर्वन्ति।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, HPCM, Kinnaur News, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Eco Tourism : पौंग-सरोवरे इको- पर्यटनस्य प्रचारं करिष्यति राज्यसर्वकारः।
Next Article Achievement : हिमाचलस्य वंशिका गोस्वामी अन्त:- १९ आयुवर्गे विश्वमुक्केबाजीप्रतियोगितायां स्वर्णपदकं प्राप्नोत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?