By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा:
धर्मसंस्कृतिःहिमाचलवार्ता

International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा:

डॉ मनोज शैल
Last updated: 2024/10/17 at 8:25 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

International Dussehra Festival Kullu : सप्तदिनानि यावद् तपस्वीवत् निवसन्ति ३,००० देवकार्यगणा:

हिमसंस्कृतवार्ता: – कुल्लू:।

देवी-देवानां महाकुम्भे कुल्लुदशहरायां देवानां मुख्याः कार्यगणा: (कारकून) तपस्वीरूपेण निवसन्ति। देवपरम्परां निर्वहन् एते कार्यगणा: केवलं देवानां शिबिरेषु निर्मितं भोजनं खादन्ति। ते विपण्यां बहिः होटेलेषु, भोजनालयेषु च जलं चायं च पातुमपि न शक्नुवन्ति। अस्मिन् समये दशहरा-उत्सवम् आयोजयितुं मण्डलात् ३०० तः अधिकाः देवी-देवताः आगताः सन्ति तथा च प्रायः ३००० एतादृशै: कार्यगणै: देवानाम् नियमानाम् अनुसरणं कर्तव्यम् भवति ।

प्रत्येकं देवेन सह प्रायः १० तः १२ प्रमुखाः कार्यगणा: सन्ति ये देव-नियमैः बद्धा: भवन्ति। तेभ्य: अहर्निशं स्वस्य देवस्य सेवा कर्तव्या भवति। अस्मिन् मुख्यतया देवस्य कार्यकर्तारः (कारदार), अर्चक:, गुरः, पुरोहितः, कायथः, भण्डारक: इत्यादयः केचन अन्ये च सन्ति । यद्यपि देवेन सह एतै: नियमानाम् अनुसरणं कर्तव्यं भवति तथापि कुल्लू दशहरायां एतेषां नियमानाम् अनुसरणं अग्निपरीक्षायाः न्यूनं नास्ति ।

देवसमाजस्य ज्ञाता एवं जिला देवी-देवता- कारदारसंघस्य अध्यक्ष दोतरामठाकुर:, उपाध्यक्ष: शेरसिंह:, टीसीमहंत:, कार्यकर्तार: भागेराम: राणा, इन्द्रसिंह: अमरसिंह: अवदन् यत् दशहरायां देवपरम्पराणां निर्वहनं कर्तव्यं भवति। नियमानुगुणं च देवानां मुख्यकार्यगणै: अनुसरणं कर्तव्यं भवति। ते अवदन् यत् यत्किमपि प्रकारस्य प्रमादः भवति चेत् देवाः रुष्टा : भवन्ति, तदर्थं धार्मिककार्यक्रमानाम् आयोजनं कर्तव्यम् भवति।

देवसंस्कृते: ज्ञाता डॉ सूरतठाकुर: अवदत् यत् दशहरायां देवानां मुख्यकार्यगणानां कृते देवनियमानाम् अनुसरणं आह्वानं भवति। तेभ्य: प्रतिपलं देवेन निर्मितनियमानुसारं गमनं भवति। भोजनात् पेयपर्यन्तं अनेकप्रतिबन्धानां सम्मुखीकरणं च कर्तव्यं भवति । तेभ्य: दशहरायाः सप्तदिनानि यावत् स्वस्य अस्थायीशिबिरेषु पाकं कृत्वा भोक्तव्यं भवति।

You Might Also Like

मकरसंक्रान्तेः फलम् (जनवरी 2026)

लोहडी उत्तरभारते प्रसिद्धः उत्सवः

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, International Dussehra Festival Kullu, कुल्लू समाचार, दशहरा, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HPCM: हिमाचलम् स्वपादयो: स्थातुं गच्छति।
Next Article प्रधानमन्त्री मोदी -विश्वं युद्धे न अपितु बुद्धे समाधानं प्राप्तुं शक्नोति
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?