By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: CM Sukhu: स्वास्थ्यविभागे २७०० पदानि पूरयितुं प्रक्रिया प्रचलति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: CM Sukhu: स्वास्थ्यविभागे २७०० पदानि पूरयितुं प्रक्रिया प्रचलति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमाचलवार्ता

Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: CM Sukhu: स्वास्थ्यविभागे २७०० पदानि पूरयितुं प्रक्रिया प्रचलति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

डॉ मनोज शैल
Last updated: 2024/09/18 at 10:52 PM
डॉ मनोज शैल
Share
7 Min Read
SHARE

CM Sukhu: स्वास्थ्यविभागे २७०० पदानि पूरयितुं प्रक्रिया प्रचलति- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

हिमसंस्कृतवार्ता: – शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे राष्ट्रियक्षय- उन्मूलनकार्यक्रमस्य अन्तर्गतं राष्ट्रियकार्यदलस्य द्विदिवसीयसमागमस्य अध्यक्षतां कृतवान्। अस्मिन् सत्रे देशस्य सर्वेभ्यः क्षयरोगविशेषज्ञाः भागं गृह्णन्ति। हिमाचलप्रदेशे द्वितीयवारं एतस्याः महत्त्वपूर्णायाः सभायाः आयोजनं भवति। मुख्यमन्त्री ‘मेरी टीबी की कहानी फेज-२’ इति उपक्रमस्य शुभारम्भं कृतवान्। अस्य उपक्रमस्य उद्देश्यं क्षयरोगसम्बद्धा: दुर्भावना: दूरीकर्तुं जनानां मध्ये अस्य रोगस्य विषये जागरूकतां जनयितुं च अस्ति। अस्य अभियानस्य द्वितीयचरणस्य आरम्भं कृत्वा देशस्य प्रथमं राज्यं हिमाचलम् अस्ति। मुख्यमन्त्री उक्तवान् यत् स्वास्थ्यसेवासु अधिकोन्नयनं कर्तुं स्वास्थ्यविभागे विविधवर्गस्य २७०० पदं पूरयितुं प्रक्रिया प्रचलति। मुख्यमंत्री सुक्खुः अवदत् यत् क्षयरोगस्य रोगिणां सुविधायै प्रारम्भिके स्तरे एव रोगस्य ज्ञानाय राज्ये मॉलीक्यूलर- परीक्षणसुविधा आरब्धा अस्ति। पञ्चजनपदेषु कृत्रिममेधायुक्तानि पोर्टेबल-एक्स-रे-यन्त्राणि उपलब्धानि  सन्ति। शीघ्रमेव एषा सेवा शेषजनपदेषु अपि विस्तारिता भविष्यति। अस्मिन् रोगे पीडितानां रोगिणां कृते हिमाचलप्रदेशस्य अनुकूलजलवायो: महत्त्वं व्याख्याय मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः हिमाचलस्य शुद्धवातावरणं मनसि कृत्वा राज्ये स्वास्थ्यपर्यटनं प्रवर्धयितुं कार्यं कुर्वन् अस्ति। हिमाचले क्षयरोगस्य उन्मूलनार्थं राज्यसर्वकारः यत्किमपि साहाय्यं प्रयच्छति। राज्ये प्रतिवर्षं प्रायः १५,००० क्षयरोगरोगिणः चिकित्सां कुर्वन्ति। अस्य रोगस्य निवारणे राज्यस्य प्रयत्नाः राष्ट्रियस्तरे अपि प्रशंसिताः। नवीनतमचिकित्सासाधनानां विषये राज्यसर्वकारेण एम्स दिल्ली इत्यनेन सह ज्ञापनपत्रे हस्ताक्षरं कृतम्। टाण्डा चिकित्सामहाविद्यालये, आईजीएमसी शिमला इत्यत्र स्वास्थ्यसुविधाः सुदृढाः क्रियन्ते। चिकित्सकानां, परिचारिकानां, पैरामेडिकल- कर्मचारिणां च कार्याणि सुलभं कर्तुं चिकित्सालये अनुकूलवातावरणं निर्मातुम् अपि प्रयत्नाः क्रियन्ते। ७० वर्षाणाम् उपरि वृद्धानां कृते विशेषस्वास्थ्यसेवा आवश्यकी भवति। राज्यसर्वकारः वृद्धानां कृते द्वारस्य समीपे चिकित्सापरीक्षासुविधाः प्रदातुं नूतनां योजनाम् आरब्धुं विचारयति। राज्ये कर्करोगरोगिणां वर्धमानस्य विषये चिन्ताम् प्रकटयन् सः अवदत् यत् सः २०२६ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं राज्यं हरित ऊर्जाराज्यरूपेण स्थापयितुं प्रतिबद्धः अस्ति। सः अवदत् यत् राज्ये विद्युत्वाहनानां संचालनं नवीकरणीय ऊर्जाविकल्पानां च प्रचारः क्रियते, सोलनमण्डलस्य नालागढनगरे च १ मेगावाट ग्रीनहाइड्रोजनसंयन्त्रं स्थापितं भवति।

स्वास्थ्यपरिवारकल्याणमन्त्री डॉ. धनीराम शाण्डिलः अवदत् यत् राष्ट्रियकार्यदलस्य प्रयत्नस्य फलस्वरूपं क्षयरोगसम्बद्धे सामाजिकदृष्टिकोणे महत्परिवर्तनं जातम्। निर्धनबालानां कल्याणं, तेषां शिक्षा, परिचर्या, आत्मनिर्भरता च सुनिश्चित्य प्रारब्धस्य मुख्यमन्त्री सुख- आश्रययोजनायाः मुख्यमन्त्रिणं प्रति आभारं प्रकटितवान्।

 

Education Minister: सर्वकारीविद्यालयेषु ५१ सहस्रछात्राः न्यूनीकृताः

हिमसंस्कृतवार्ता: – शिमला। 

राजकीय- प्राथमिक- शिक्षकसङ्घस्य प्रतिनिधिमण्डलेन बुधवासरे राज्याध्यक्षस्य जगदीशशर्मा इत्यस्य नेतृत्वे राज्यसचिवालये शिक्षामन्त्री रोहितठाकुरेण सह समागमः कृतः। अस्मिन् अवसरे शिक्षामन्त्री उक्तवान् यत् २०२३ तमस्य वर्षस्य तुलनायां सर्वकारीयविद्यालयेषु छात्राणां संख्या ५१ सहस्रन्यूनीकृता अस्ति। सर्वकारीविद्यालयेषु छात्राणां संख्या न्यूना भवति। शून्यनामाङ्कनं पञ्चभ्यः न्यूनं वा विद्यालयं सर्वकारेण पिहितं कर्तव्यम् अस्ति। शिक्षामन्त्री छात्राणां कृते गुणवत्तापूर्णशिक्षाप्रदानाय नवाचारस्य नवोन्मेषस्यश्च आवश्यकतायाः उपरि बलं दत्तवान्। सः अवदत् यत् शिक्षकाः छात्राणां चरित्रं, अनुशासनं, तार्किकशक्तिं, राष्ट्रियचिन्तनस्य भावं च विकसयन्ति।

प्रतिनिधिमण्डलेन विद्यालयेषु शिक्षकानां रिक्तपदानि पूरयितुं, पूर्वप्राथमिकस्य एनटीटी- नियुक्तिः, पदोन्नति-वेतनविसंगतिं दूरीकर्तुं, स्थगित-क्रीडा-प्रतियोगितानाम् आरम्भः, महार्घतावृत्ते: अवशिष्टांशं प्रदातुं, खण्ड- शिक्षा- अधिकारिपदस्य राजपत्रीकरणं च इत्यादय: विविधा: प्रार्थना: कृता:।  शिक्षामन्त्री प्रतिनिधिमण्डलस्य सर्वाणि आग्रहाणि सम्यक् श्रुत्वा सहानुभूतिपूर्वकं विचारयितुं आश्वासनं दत्तवान्। सः अवदत् यत् राज्यसर्वकारेण शैक्षणिकसत्रे स्थानान्तरणस्य पूर्णप्रतिबन्धः कृतः येन छात्राणाम् अध्ययनं न प्रभावितं भवति। गोष्ठ्यां शिक्षासचिव: राकेशकंवर:, संयुक्तशिक्षासचिव: सुनीलवर्मा, प्रारम्भिकशिक्षानिदेशक: आशीष कोहली,  अतिरिक्तनिदेशक: बी. आर. शर्मा च उपस्थिता: अभवन्।

 

J&K Election: उपमुख्यमंत्री मुकेश अग्निहोत्री वरिष्ठः पर्यवेक्षकः, उपमुख्यमंत्री अवदत् निर्मास्यते काङ्ग्रेस-सर्वकार:

हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।

काङ्ग्रेसस्य शीर्षनेतृत्वेन जम्मूकश्मीरे उपमुख्यमन्त्री मुकेश अग्निहोत्री वरिष्ठपर्यवेक्षकरूपेण नियुक्त:। अस्मिन् विषये काङ्ग्रेसस्य महासचिवः के. सी. वेणुगोपालः आदेशान् कृतवान् अस्ति। एते आदेशाः तत्कालं प्रभावेण कार्यान्विताः सन्ति। मुकेश अग्निहोत्री इत्यस्य अतिरिक्तं पञ्जाबस्य पूर्वमुख्यमन्त्री वर्तमानसांसद: चरणजीतसिंह चन्नी अपि वरिष्ठपर्यवेक्षकः कृतः। उल्लेखनीयं यत् जम्मू-कश्मीरस्य ९० विधानसभासनेषु मतदानं कर्तव्यम् अस्ति। निर्वाचन-आयोगेन त्रिषु चरणेषु मतदानस्य तिथिः निर्धारिता अस्ति। प्रथमचरणस्य मतदानं १८ सितम्बरे, द्वितीये २५ सितम्बरे, तृतीये चरणे च अक्टोबर् १ दिनाङ्केषु मतदानं भविष्यति। जम्मू-कश्मीरे निर्वाचनस्य परिणामः अक्तूबरमासस्य चतुर्थे दिने आगमिष्यति। प्रथमचरणस्य २४, द्वितीयचरणस्य २६, अन्तिमचरणस्य ४० आसनेषु मतदानं भविष्यति। दशवर्षेभ्यः अनन्तरं जम्मूकश्मीरे निर्वाचनं भवितुं गच्छति। उपमुख्यमन्त्री मुकेश अग्निहोत्री इत्यस्य नियुक्तेः अनन्तरं हिमाचले अपि उत्साहः वर्धितः अस्ति। अपरपक्षे उपमुख्यमन्त्री मुकेशअग्रिहोत्री सः काङ्ग्रेसस्य निष्ठावान् कार्यकर्ता इति अवदत्। काङ्ग्रेस- उच्च- नेतृत्वेन यः विश्वासः तस्मिन् आश्रितः सः सः पूर्णं करिष्यति। मुकेशः अवदत् यत् जम्मूकश्मीरे विधानसभानिर्वाचने काङ्ग्रेसपक्षस्य सुदृढीकरणाय कार्यं भविष्यति। जम्मूकश्मीरे काङ्ग्रेससर्वकारस्य निर्माणं भवतु इति कार्यं क्रियते।

 

Himachal News: विद्युत्परावर्तक- चौर्यगणस्य पटाक्षेप:, पुलिसैन पञ्च-आरोपिणः गृहीताः

हिमसंस्कृतवार्ता:- शिमला। 

शिमलापुलिसः उपरिशिमलाक्षेत्रस्य विभिन्नेषु क्षेत्रेषु विद्युत् विद्युत्परावर्तकाणां चौर्येण सम्बद्धस्य गणस्य बन्धनं कृतवान्। विद्युत्परावर्तकाणां  चौर्यसम्बद्धस्य गणस्य पञ्च सदस्याः पुलिसैः गृहीताः। एतेन सह पुलिसैः ट्रांसफार्मरचोरीविषये विविधाः प्रकरणाः प्रकाशिताः। पुलिसैः गृहीताः सर्वे अभियुक्ताः नेपालीमूलस्य सन्ति। ते उच्चशिमलाक्षेत्रस्य विभिन्नेषु क्षेत्रेषु ट्रांसफार्मर-चोरयन्ति स्म। अयं गणः ३० लक्षरूप्यकाणां यावत् मूल्यस्य विद्युत्परावर्तकान् अपहृतवान् आसीत्। अयं विद्युत्परावर्तकचौर्यदलं विगतत्रिमासेषु रोहड़ू, कुमारसेन, मत्याना, नहोल, फागु, जुब्बल, कोटखाई चेति स्थानेषु विद्युत्परावर्तकाणां अनेकाः घटना: कृतवन्तः। एतेषु क्षेत्रेषु प्रायः अष्टौ प्रकरणाः ज्ञाताः सन्ति। एषः गणः पुलिसस्य कृते शिरोवेदना आसीत्, परन्तु पुलिसदलेन योजनाबद्धरूपेण अस्य समूहस्य नियन्त्रणं कृतम्। अभियुक्तेषु जयबहादुर थापा (२६), इन्दरसिंह: (२८), वीरबहादुर: (२१), सागर साही (४९), भगतबहादुर (३९) इति ज्ञाता: सन्ति। अपरपक्षे उपपुलिसाधीक्षक: ठियोग सिद्धार्थशर्मा कथयति यत् गृहीताः अभियुक्ताः एकं दलं निर्माय ट्रान्सफॉर्मरं चोरयन्ति स्म। सः अवदत् यत् अभियुक्ताः कोटखाई-क्षेत्रस्य बागी-रावलकेयरयोः प्रत्येकं द्वे घटने, कुमारसेननगरे च त्रीणि चौर्यघटना: कृतवन्तः। एतदतिरिक्तं रोहड़ू क्षेत्रस्य टिक्कर, फागु, जुब्बल, मत्याना इत्यत्र अपि विद्युत्परावर्तकाणां चौर्याय प्रयत्नान् कृतवन्त:। डीएसपी सिद्धार्थशर्मा कथयति यत् पुलिसैः अभियुक्तानां विरुद्धं प्रकरणं पञ्जीकृत्य अग्रे कार्यविधि: आरब्धा।

 

HP NEWS : हिमाचलतः अपहृतम् उत्तरक्षेत्रस्य एथलेटिक-मेलनस्य आतिथ्यम्, अधुना देहल्यां भविष्यति

हिमसंस्कृतवार्ता: – धर्मशाला।

हिमाचलः उत्तरक्षेत्रस्य एथलेटिक-मेलनस्य आतिथ्यं हारितवान् अस्ति। अस्य आयोजनं धर्मशालायाः सिंथेटिक-पट्टिकायां अक्तूबरमासस्य ७ तः ९ पर्यन्तं भवितुम् अर्हति स्म, परन्तु एथलेटिकमेलनं दिल्लीनगरे भविष्यति। कथ्यते यत् क्रीडाविभागस्य सहकार्यस्य अभावात्, प्रतियोगितायाः प्रायोजकानाम् अभावात् च राज्यस्य एथलेटिक्ससङ्घेन अस्य आयोजनस्य विषये चिन्ता प्रकटिता आसीत्। अस्मिन् विषये भारतस्य एथलेटिक्स फेडरेशनेन धर्मशालायाः स्थाने उत्तरक्षेत्रस्य एथलेटिक मीट इत्यस्य आयोजनं दिल्लीनगरे करणीयम् इति निर्णयः कृतः। शीघ्रमेव राज्य- एथलेटिक्ससंघ: प्रतियोगितायां भागं गृह्णन्तः क्रीडकानां सूचीं प्रकाशयिष्यति, येन क्रीडकाः स्वस्य अभ्यासे ध्यानं दातुं शक्नुवन्ति। प्रतियोगितायां १००, ८०० मीटर धावनस्य अतिरिक्तं मध्यमदीर्घदूरधावनस्य आयोजनं कर्तव्यम् आसीत्। एतदतिरिक्तं दीर्घकूर्दनं, उच्चकूर्दनम्, भालाक्षेपणं इत्यादयः बहवः स्पर्धाः आयोज्यन्ते स्म। एतदर्थं सप्तराज्येभ्यः ४०० तः अधिकाः क्रीडकाः धर्मशालायां समागन्तुं युक्ताः आसन्। एथलेटिक्स फेडरेशन आफ् इण्डिया इत्यस्य उपाध्यक्षः सुमन रावत इत्यनेन उक्तं यत् धर्मशालायां भवितुं शक्नुवन्तः उत्तरक्षेत्रस्य एथलेटिक मीट इदानीं दिल्लीनगरं स्थानान्तरितम् अस्ति। अस्य विषये संघस्य अधिकारिणः क्रीडकाः च सूचिताः सन्ति। अधुना राज्यस्य क्रीडकाः अक्तूबर ७ तः ९ पर्यन्तं दिल्लीनगरे स्वप्रतिभां प्रदर्शयिष्यन्ति।

एथलेटिकमेलने चम्बानगरस्य त्रयः धावकाः भागं गृह्णन्ति

दिल्लीनगरे भवितुं शक्नुवन्तः उत्तरक्षेत्रस्य एथलेटिकमेलने चम्बानगरस्य त्रयः धावकाः स्वप्रतिभां प्रदर्शयिष्यन्ति। राज्यस्तरीय- प्रतियोगितायाम् उत्तमप्रदर्शनस्य कारणात् ते उत्तरक्षेत्रस्य कृते चयनिता: सन्ति। राजपुरा निवासी तनिष्का बराल हिमाचलस्य प्रतिनिधित्वं 3,000 मीटरमध्ये करिष्यति। यत्र मसरुण्डग्रामस्य सत्या, डलहौसीनगरस्य मेलग्रामस्य कुणालः च ८०० मीटर धावने स्वशक्तिं प्रदर्शयिष्यन्ति। जिला एथलेटिक्स संघस्य अध्यक्षः शौकत अली इत्यनेन उक्तं यत् विगतकेषु वर्षेषु चम्बा इत्यस्य धावकानां प्रदर्शने विकास: अभवत्। अस्मिन् वर्षे चम्बा-धावकाः राज्यस्तरस्य स्पर्धायां १० पदकानि जित्वा राज्यस्य चम्बा-मण्डलाय गौरवम् आनयत्।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP Government, HP NEWS, HPCM, hpgovt, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?