By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनम्
संस्कृतगतिविधयःहिमाचलवार्ता

हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2024/09/14 at 6:58 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

हिमाचलसंस्कृतअकादम्याः शिमलायाः नेतृत्वे ऊनाजिलायां जिलास्तरीयविद्यालयसंस्कृतप्रतियोगितानां आयोजनं राजकीयकन्या-उत्कृष्टविद्यालये ऊनानगरे सम्पादितम्। अस्य कार्यक्रमस्य अध्यक्षतां डॉ. जगदीशचन्द्रशर्मणः कृतवान्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रारम्भिकशिक्षोपदेशकः श्रीसोमनाथधीमानमहोदयः उपस्थितः आसीत् तथा समापनसत्रे मुख्यातिथिरूपेण उच्चतरशिक्षोपनिदेशकः श्रीराजेन्द्रकौशलमहोदयः सन्निहितः आसीत्। कार्यक्रमे विशिष्टातिथिरूपेण श्रीनरोत्तमशर्मा, तथा स्थानीयविद्यालयस्य प्रधानाचार्यः श्रीसुरेशकुमारशर्मा उपस्थिता आस्ताम्। जिलास्तरीयाः अयं प्रतियोगिताः हिमाचलसंस्कृतअकादम्याः सचिवस्य डॉ. केशवानन्दस्य निर्देशनस्य अन्तर्गतं सम्पादिताः। अस्मिन्सत्रे मातेव वैदिकमन्त्रानामुच्चारणस्पर्धा, संस्कृतश्लोकप्रतियोगिता, संस्कृतगीतकस्पर्धा, संस्कृतभाषणप्रतियोगिताच आयोजिताः। एषु प्रतियोगितासु समग्रः ऊनाजिलस्य सप्ततिः विद्यालयाः विभिन्नासु स्पर्धासु सहभागं कृतवन्तः। प्रतियोगितानां आयोजनं द्वयोः स्तरयोः सम्पन्नं यत्र षष्ठीतमकक्ष्यायाः छात्राणां कृते कनिष्ठवर्गे मन्त्राणामुच्चारणं तथा श्लोकानाम्प्रतियोगिता कारिता। वरिष्ठवर्गे संस्कृतगीतमञ्च तथा भाषणस्पर्धा आयोजिता। कनिष्ठवर्गे मन्त्रूच्चारणप्रतियोगायां डोहगीविद्यालयस्य सचिनशर्मा प्रथमं स्थानं, हटलीविद्यालयस्य समर द्वितीयं, कलरूहविद्यालयस्य वंशजसवाल तृतीयं तथा खादमसियानिविद्यालयस्य ध्रुवसिंह चतुर्थस्थानं प्राप्नोत्। संस्कृतश्लोकप्रतियोगायां मंदलीविद्यालयस्य हर्षकौण्डलः प्रथमं, ऊनाकन्यविद्यालयस्य भूमिकाबेदी द्वितीयं, अम्बविद्यालयस्य सनमखान तृतीयं तथा धनेटविद्यालयस्य आकांक्षा चतुर्थं स्थानं प्राप्तवती। वरिष्ठवर्गे संस्कृतभाषणस्पर्धायां डोहगीविद्यालयस्य ऋद्धिमाशर्मा प्रथमं, बडेढविद्यालयस्य मनीषाकुमारी द्वितीयं, बांगाणविद्यालयस्य कामिनीदेवी तृतीयं, मंदलीविद्यालयस्य सारिकाभारद्वाजः चतुर्थं स्थानं प्राप्तवती। संस्कृतगीतप्रतियोगायां विभिन्नाः विद्यालयेभ्यः छात्राः प्रथमं द्वितीयं तृतीयं च स्थानं प्राप्तवन्तः। अस्मिन्नेव अवसरस्मिन् डॉ. मनोजशैलः संयोजकः, गोपालशर्मा, सुरेन्द्रजोशी, अरुणशर्मा, सन्दीपशर्मा च मंचसंचालकाः आसन्। निर्णायकगणे डॉ. दीपकुमार, डॉ. धनीरामः, डॉ. नरेशमलोटिया, डॉ. राजेन्द्रशर्मा, डॉ. अमनशर्मा, डॉ. अमितशर्मा, डॉ. महेन्द्रगोपालः, डॉ. मनोजशैलः, डॉ. नरोत्तमदत्तशर्मा च सम्मिलिताः आसन्। समापनस्य आरम्भसत्रे डॉ. शिवकुमारः मंचसंचालकः अभवत्। अस्य अवसरस्य अन्ते अकादम्याः सचिवः डॉ. केशवानन्दकौशलमहोदयः उद्घोषयत् यत् हिमाचलसंस्कृतअकादम्या राज्ये संस्कृतभाषायाः प्रचारप्रसारे सर्वस्तरे यथाशक्ति प्रयत्नः क्रियते, विद्यालयस्तरे महाविद्यालयस्तरे च सामाजिकस्तरे संस्कृतस्य प्रचारप्रसाराय निरन्तरं संलग्नाः वयं भवन्तः। नूतनपीढ्याः संस्काराणां पतनमासन्नं दृष्ट्वा पुनः संस्कारयुक्तं भारतं निर्मातुं संस्कृताध्ययनं अत्यावश्यकमिति। संस्कृतभाषा न केवलं भाषारूपेण, अपितु विज्ञानस्य प्रत्येकस्तरे अपि उपयोगं प्राप्नोति। अतोऽयं प्रकारः प्रतियोगितानां आयोजनं छात्रेषु संस्कृतभाषायां रुचिं उत्पादनाय भविष्ये उत्तमानां संस्कृतज्ञानां निर्माणाय अत्यावश्यकमिति। अकादम्या एषा दिशा निरन्तरं कारिता आसीत् भविष्ये अपि कार्यं विधास्यति। अस्मिन्नेव अवसरस्मिन् प्रारम्भिकशिक्षोपनिदेशकः श्रीसोमनाथधीमानः, उच्चतरशिक्षोपनिदेशकः श्रीराजेन्द्रकौशलः च अपि संस्कृतस्य प्रचारप्रसारे छात्राणां प्रोत्साहनं कर्तुं मार्गदर्शनं च कृतवन्तौ। विद्यालयस्य प्रबन्धनस्य सहयोगेन कार्यक्रमस्य सफलतायाः सुनिश्चितं कृतम्।

You Might Also Like

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

TAGGED: हिमाचल, हिमाचल संस्कृत अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article पोर्ट-ब्लेयरः ‘श्री विजयपुरम्’ इति नाम्ना प्रसिद्धः भविष्यति , मोदीसर्वकारस्य महत् निर्णयः
Next Article विश्वस्वास्थ्यसङ्गठनेन मंकीपॉक्स- वायरसस्य विरुद्धं बवेरियन- नॉर्डिक- टीकाकरणस्य ​​अनुमोदनं कृतम्।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?