By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HRTC : मुख्यमंत्रिणा सुखविन्दरसिंह सुक्खुना हिमाचल- पथ- परिवहन- निगमस्य प्रीपेडकार्ड- इत्यस्य शुभारम्भ: कृत:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HRTC : मुख्यमंत्रिणा सुखविन्दरसिंह सुक्खुना हिमाचल- पथ- परिवहन- निगमस्य प्रीपेडकार्ड- इत्यस्य शुभारम्भ: कृत:
हिमाचलवार्ता

HRTC : मुख्यमंत्रिणा सुखविन्दरसिंह सुक्खुना हिमाचल- पथ- परिवहन- निगमस्य प्रीपेडकार्ड- इत्यस्य शुभारम्भ: कृत:

डॉ मनोज शैल
Last updated: 2024/09/05 at 10:02 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HRTC : मुख्यमंत्रिणा सुखविन्दरसिंह सुक्खुना हिमाचल- पथ- परिवहन- निगमस्य प्रीपेडकार्ड- इत्यस्य शुभारम्भ: कृत:

हिमसंस्कृतवार्ता: – शिमला। 

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे हिमाचल- पथ- परिवहन- निगमस्य राष्ट्रिय- सामान्यगतिकार्डसुविधायाः आरम्भं कृतवान् यस्य उद्देश्यं नगदरहितयात्रायाः प्रोत्साहनं भवति। क्रेडिट कार्ड, डेबिट कार्ड, यूपीआई इत्येतेषाम् अतिरिक्तम् अधुना यात्रिकाः हिमाचलपथपरिवहननिगमस्य बसयानेषु राष्ट्रियसामान्यगतिशीलताकार्डद्वारा अपि भाटकं दातुं शक्नुवन्ति। अस्य कार्डस्य माध्यमेन यात्रिकाः नगदरहितरूपेण देशे सर्वत्र अनेकविधसेवानां लाभं प्राप्तुं शक्नुवन्ति। मुख्यमन्त्री उक्तवान् यत् हिमाचलपथपरिवहननिगमः देशे प्रथमः राज्यपरिवहन उपक्रमः अस्ति यः एतां सुविधां प्रारभते। सः अवदत् यत् राज्यसर्वकारस्य एष उपक्रमः सार्वजनिकयानक्षेत्रे एकः आधारस्तम्भ: सिद्धः भविष्यति। परिवहनस्य सुव्यवस्थितीकरणे, यात्रिकाणां कृते विश्रान्तियुतं सुलभं च यात्रां प्रदातुं साहाय्यं करिष्यति। सः अवदत् यत् अस्य कार्डस्य माध्यमेन दिल्लीमेट्रो, दिल्लीपरिवहननिगमः, हरियाणापथमार्गः, पश्चिममुम्बईबसयानेषु गन्तुं शक्यते। एचआरटीसी बसेयानेषु अपि अस्य कार्डस्य माध्यमेन नगदरहितं व्यवस्थापनं कर्तुं शक्यते। सः अवदत् यत् राज्यसर्वकारः मानवसंसाधनक्षेत्रे व्यापकपरिवर्तनानि आनेतुं प्रतिबद्धः अस्ति। सः अवदत् यत् हिमाचलपथपरिवहननिगमम् आत्मनिर्भरं कर्तुं, तस्य संचालनं च कर्तुं प्रौद्योगिकी एकीकृता भवति। सः अवदत् यत् एच् आर टी सी इत्यस्य सुदृढीकरणेन राज्यस्य जनानां लाभः भविष्यति। सः अवदत् यत् राष्ट्रियसामान्यगतिशीलताकार्डस्य कृते अन्तर्जालसुविधायाः आवश्यकता न भविष्यति, अतः राज्यस्य दूरस्थक्षेत्रेषु निवसन्तः जनाः अपि अस्याः सुविधायाः लाभं प्राप्तुं शक्नुवन्ति। सः अवदत् यत् एतत् कार्डं शतरूप्यकाणां भुक्तिं कृत्वा निर्गतं भविष्यति, तदनन्तरं जनाः बसकेन्द्रे अस्य टॉप- अप- रिचार्जं ऑनलाइन- ऑफलाइन- इत्यत्र च कर्तुं शक्नुवन्ति। सः अवदत् यत् हिमाचलपथपरिवहननिगमस्य षड्मासानां अभिलेखकालान्तरे एतत् कार्डं प्रक्षेपणार्थं कृताः प्रयासाः प्रशंसनीयाः सन्ति। सः अवदत् यत् एच आर टी सी इत्यनेन देशस्य अन्यराज्यानि अतिक्रम्य अनुकरणीयः आरम्भः कृतः।

You Might Also Like

मकर संक्रान्ति: शास्त्रीय-महत्त्वं जीवनोपयोगिता च । एकतां माधुर्यम् जीवनकलां च शिक्षयति मकर-संक्रान्ति: – डॉ मनोज शैल:

पंचायतनिर्वाचने उच्चन्यायालयस्य निर्णयस्य अध्ययनं कुर्वन्नस्ति सर्वकार: – मुख्यमंत्री सुक्खुः

HP Govt Administrative Transfers – हिमाचले प्रशासनिकं परिवर्तनं गंधर्वराठौर: उपायुक्त: हमीरपुरं नियुक्त:

Mandi Bus Accident – मण्ड्यां निजीबसयानस्य दुर्घटना एका महिला मृता, चत्वारः यात्रिकाः घातिताः। Koldam Accident News- कोलबन्धजलाशये कारयानं पतितम्, द्वौ युवकौ मृतौ

हिमाचलप्रदेशेन भूटानदेशाय पाइन-नट-वृक्षा: उपहाररूपेण प्रदत्ता:। मुख्यमंत्री सुक्खुः हरित्ध्वजं प्रदर्श्य यानं प्रेषितवान्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP Government, HP NEWS, HPCM, hpgovt, HRTC, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Shimla Masjid Controversy : हिन्दूसङ्घटनै: आन्दोलनं कृतं विवादितसंरचनाया: ध्वंसनस्य आग्रह:
Next Article Himsanskritnews Headlines : विद्यालयीयछात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?