सफलता परिश्रमेण आयाति
वार्ताहर: – जगदीशडाभी (पश्चिमबङ्गः)
सफलता कदापि अलसेन न आयाति। परिश्रमेण सफलतायाः अर्जनं भवति। पश्चिमबङ्गराज्यस्य पूर्ववर्धमानजिलायाः कालनापरिमण्डलस्य एकः सर्वकारनियन्त्रितः महाविद्यालयः वर्तते। महाविद्यालयस्य नाम अस्ति। “राजकीय- जनरल- डिग्री- कॉलेज, कालना १” इति। एषः महाविद्यालयः वर्धमानविश्वविद्यालयान्तर्गतः मधुपुरनामकं स्थानतः दशकिलोमीटरव्यवधाने विराजते। महाविद्यालये विविधानां विषयाणां पाठदानं भवति। प्रतिवर्षम् इतः छात्राः उत्तमफलार्जनं कुर्वन्ति। विज्ञानविभागैः सह कलाविभागानां आधुनिकपाठदानकक्षाः सन्ति। तत्र अध्यापकाः प्रकाशप्रक्षेपण्या पाठयन्ति। अध्यापकैः सह छात्राणां सुसम्पर्कः सदा विराजते अत्र। अध्यापकाः छात्राणां कृते, महाविद्यालयस्य कृते दिवारात्रौ परिश्रमं कुर्वन्ति। छात्राः अपि आनन्देन महाविद्यालयम् आगत्य मनोयोगेन पठन्ति। एतादृशः द्वितीयः महाविद्यालयः विरलः। २०२४- तमे वर्षे महाविद्यालये “राष्ट्रीय- महाविद्यालय- मूल्याङ्कननिर्धारण- संस्था” आगता। संस्था आगत्य सर्वं परिदृष्टवान्। संस्थया एषः महाविद्यालयः “ए” वर्गयुक्तः अभवत्। महाविद्यालयस्य प्रतिष्ठायाः पञ्चवर्षानन्तरं प्रथमवारं राष्ट्रीय- महाविद्यालय- मूल्याङ्कन- निर्धारणसंस्थया एतस्य महाविद्यालयस्य मूल्याङ्कननिर्धारणं कृतम्। छात्रैः, अध्यापकैः निरन्तरप्रयासेन एषा सफलता अर्जिता।