२०२८ वा २०२९ न, अल्लू अर्जुनः शीघ्रमेव पुष्पा ३ निर्मातुम् इच्छति
वार्ताहर: – जगदीशडाभी (मुम्बई)
दक्षिणस्य सुप्रसिद्ध-नायकस्य अल्लू अर्जुनस्य पुष्पा २ इति चलच्चित्रस्य सम्पूर्णे विश्वे प्रचण्डा प्रतिक्रिया प्राप्ता अस्ति । अस्य चलच्चित्रस्य विश्वे १५०० कोटिरूप्यकाधिकम् अर्जनं कृतम् अस्ति । अस्य चलच्चित्रस्य प्रचण्डसफलतायाः अनन्तरं प्रशंसकाः पुष्पा ३ इत्यस्य प्रतीक्षां कुर्वन्ति । पुष्पा ३ इति चलच्चित्रस्य निर्माणं भविष्यति इति घोषणां पुष्पा २ चलच्चित्रे एव अभवत् । परन्तु केभ्यः दिनेभ्यः एव एतत् चलच्चित्रं शीघ्रमेव न निर्मितं भविष्यति इति कथ्यते । बहुवर्षपर्यन्तम् अल्लू अर्जुनः केवलं पुष्पा, पुष्पा २ च उपरि कार्यं कृतवान् ।
अधुना अल्लू अर्जुनः अन्यस्मिन् परियोजनायां कार्यं करिष्यति। पुष्पा चलच्चित्रस्य निर्देशकः सुकुमारः अपि भिन्नप्रकल्पे कार्यं करिष्यति। सुकुमारः रामचरणेन सह चलच्चित्रं निर्मातुम् गच्छति यत् कतिपयेभ्यः मासेभ्यः पूर्वं घोषणां भवति स्म । अल्लू अर्जुनः सुकुमारः च द्वौ अपि भिन्न-भिन्न-प्रकल्पेषु व्यस्तौ भविष्यतः । पुष्पा ३ शीघ्रमेव प्रसारितं भविष्यति इति कथ्यते । पुष्पा ३ २०२८ तमे वर्षे वा २०२९ तमे वर्षे वा प्रदर्शितं भवेत् इति कथ्यते । परन्तु नूतनावार्तानुसारं अल्लू अर्जुनः एतत् न इच्छति । प्राप्तसमाचारनुसारम् अल्लू अर्जुनः एतत् चलच्चित्रं यथाशीघ्रम् आनेतुम् इच्छति। अल्लू अर्जुनः पुष्पा २ इति चलच्चित्रस्य सफलतया उत्साहितं वर्तते । अत: एव प्रसंशकानाम् उत्साहं न्यूनं कर्तुं न इच्छति ।