Dalai Lama : धर्मगुरुः दलाईलामा जनवरी द्वितीये दिनाङ्के कर्नाटकं गमिष्यति, तिब्बतीनववर्षस्य लोसरं यावत् तत्र स्थास्यति
हिमसंस्कृतवार्ता: – धर्मशाला।
तिब्बतीबौद्धधर्मगुरुः दलाईलामा जनवरीमासस्य द्वितीये दिनाङ्के मैकलोडगञ्जे स्थितं स्वनिवासस्थानं विहाय कर्नाटकं प्रति प्रस्थानं करिष्यति। असौ चतुर्थं जनवरी दिनाङ्के कर्नाटकस्य बैलकुप्पे इत्यत्र तिब्बतीबौद्धमन्दिरम् आगमिष्यति। अनुमान्यते यत् स: तत्रैव तिब्बतीनववर्षस्य लोसरमहोत्सवः पर्यन्तं स्थास्यन्ति, यः फरवरीमासस्य अष्टाविंशतितमे दिनांकात् आरभ्यते। अस्मिन् वर्षे जूनमासे दलाईलामा स्वस्य जानुपीडायाः चिकित्सायै न्यूयॉर्के स्थिते “हॉस्पिटल फॉर स्पेशल सर्जरी” इत्यस्मिन् गतमासीत्, यत्र तेषां जानुं यशस्विनी प्रतिस्थापनचिकित्सा कृता। तदा सः जुलाईमासं यावत् विदेशे स्वास्थ्यलाभाय स्थित:। अगस्तमासे पुनः मैकलोडगञ्जे स्वनिवासस्थानं प्राप्नोत्। तत्र स: मध्ये मध्ये शिक्षासत्राणि आयोजयति स्म, किन्तु दीर्घकालं स्वनिवासे एव स्थित:। जनवरीमासे स: जानुचिकित्सायाः अनन्तरं कर्नाटकस्य बैलकुप्पे स्थितं तिब्बतीबौद्धमन्दिरं गमिष्यति। एषा सूचना दलाईलामकार्यालयेन स्वस्य अधिकृतजालपृष्ठे अपि प्रकाशिता।