सम्मुखीभूतं सुक्खुसर्वकारस्य कर्मचारीविरोधिमुखम् – जयरामठाकुरः
हिमसंस्कृतवार्ता: – लघ्वीकाशी मण्डी।
पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः अवदत् यत् मिथ्याप्रतिश्रुतिमाश्रित्य सत्तां प्राप्तस्य काङ्ग्रेससर्वकारस्य वास्तविकं मुखम् अधुना प्रकाशितम् अस्ति। पुरातनवृत्ते: पुनर्स्थापनस्य नामधेयेन अधुना सर्वकारः एतादृशीः जटिलताः सृज्य कर्मचारिणां गले गलबद्धं कर्तुं गच्छति, यस्य कारणेन लक्षशः कर्मचारिण: प्रभाविताः अभवन्।
विरोधस्य अभावेऽपि काङ्ग्रेससर्वकारेण बहुमतस्य नामधेयेन विधानसभायां सर्वकारीयकर्मचारिभिः सह सम्बद्धं नियुक्तिसेवानियमसंशोधनविधेयकं पारितम् अस्ति। एतेन इदानीं अनुबन्धकर्मचारिणां वरिष्ठतायाः, वृद्धिः च आघातः भविष्यति। येषां कर्मचारिणां नियमितसर्वकारीयसेवा न्यूना भवति तेषां आर्थिकलाभः न्यूनीकरिष्यते। लोकसेवा-आयोगस्य राज्यचयन-आयोगस्य च साक्षात्कारं उत्तीर्णं कृत्वा अनुबन्धकर्मचारिणः अपि आगच्छन्ति। सर्वकारीयनीत्यानुसारं वर्षद्वयानन्तरं तेषां नियमितीकरणं भवति।
जयरामठाकुरः उक्तवान् यत् एतेषां कर्मचारिणां एषा अवधिः वरिष्ठतायाः अन्यलाभानां च कृते विचारणीयः इति कर्मचारिभिः न्यायालयं गत्वा एतस्य लाभः गृहीतः, परन्तु अधुना विधेयकस्य संशोधनं आनयन् सर्वकारः तेषां लाभं परिहरति। एतत् कर्मचारीविरोधी संशोधनम् अस्ति। अनेन अस्य सर्वकारस्य कर्मचारीविरोधिमुखं उजागरितम्। पूर्वमुख्यमन्त्री प्रकटीकृतवान् यत् काङ्ग्रेससर्वकारेण वर्षद्वये कार्ये एकमपि वैद्यं न नियुक्तं, यदा तु प्रतिदिनं स्वास्थ्यसेवासु परिवर्तनं कर्तुं आह्वयति। एतत् चिन्ताजनकम् अस्ति।