HP Vidhan Sabha Winter Session: आवश्यकताधारितं सूत्रं वदेत् मुख्यमंत्री? वीरभद्रसिंहस्य विरुद्धम् आचरति सुखविन्दरसिंहसुक्खुः- जयरामठाकुरः
हिमसंस्कृतवार्ता:- धर्मशाला।
विरोध- प्रदर्शकसभा- त्यागस्य (वॉकआउट) अनन्तरं विपक्षनेता जयरामठाकुरः अवदत् यत् १८६५ संस्थाः सर्वकारेण पिहिता: सन्ति। सदनस्य चर्चायां भाजपाविधायकानां सम्यक् उत्तराणि न दत्तानि इति सः अवदत्। आवश्यकता आधारितस्य विषये वदन् भ्रमस्य निर्माणार्थं प्रयत्नाः कृताः। सः अवदत् यत् सर्वकारेण १०३ नूतनाः संस्थाः उद्घाटिताः, परन्तु तेषु अपि भेदभावः अस्ति। यदा मुख्यमन्त्री पृष्टः यत् केन आधारेण संस्थाः उद्घाटिताः इति तदा मुख्यमन्त्री आवयकताधारितम् इति विषये वक्तुं आरब्धवान्। एतादृशे सति प्रश्नः उद्भवति यत् आवयकताधारितम् (Need Based) इत्यस्य किं सूत्रं स्वीकृतम् इति।
जयरामठाकुरः अवदत् यत् अप्रैलमासस्य प्रथमदिनात् परं उद्घाटिताः सर्वाः संस्थाः पिहिता: अभवन्, तथैव बजट-प्रावधानेन उद्घाटिताः संस्थाः अपि पिहिता: अभवन्। विपक्षनेता पृष्टवान् यत् आवयकताधारितम् इत्यस्य किमपि मूल्याङ्कनं कृतम् अस्ति वा इति। राजनैतिकप्रयोजनाधारितं निर्णयं गृहीत्वा संस्थाः पिहिता: आसन्। एतत् प्रथमवारं कृतम्। आहत्य १०९६ प्राथमिक- विद्यालयाः पिहिता: अभवन्। मुख्यमन्त्री सुखविन्दरसिंहः मृषावादस्य सर्वान् अभिलेखान् भङ्गं कृतवान् इति विपक्षनेता अवदत्। जनजातीयक्षेत्रस्य दूरस्थस्य विधानसभाक्षेत्रस्य च मध्ये स्थिताः संस्थाः पिहिता: इति विपक्षनेता अवदत्। वीरभद्रसिंहः कथयति स्म यत् राज्यस्य एक: अपि बालक: शिक्षया वञ्चित: न भवेत्, परन्तु सुखविन्दरसिंहसुक्खुः अद्यापि वीरभद्रसिंहस्य विरुद्धम् आचरति। निर्वाचनात् पूर्वं संस्थाः उद्घाटिताः इति विपक्षनेता अवदत्। सः अवदत् यत् आचारसंहितानुसारम् अपि देहरायां संस्थाः उद्घाटिताः, राज्यस्य सहस्राणि छात्राः शैक्षणिकसंस्थाः पिहितं कृत्वा शिक्षायाः वंचिताः अभवन्।