CM Sukhu : सहकारी-वित्तकोषेषु आवश्यकतायुतेभ्य: सम्पत्तिग्रहणात् वारयितुम् ओटीएस-प्रवर्तनं भविष्यति
हिमसंस्कृतवार्ता: – धर्मशाला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः विधानसभायां आश्वासनं दत्तवान् यत् सर्वकारः सहकारीवित्तकोषेषु एकवारं निस्तारणयोजनां आनयिष्यति येन आवश्यकतायुतानां निर्धनानाम् ऋणधारकाणां सम्पत्तिग्रहणात् उद्धारः भविष्यति। योजना काङ्गड़ा- केन्द्रीय- सहकारीवित्तकोषे, राज्यसहकारीवित्तकोषे, भूबन्धकवित्तकोषे च प्रवर्तयिष्यते। मुख्यमन्त्री भाजपा विधायकेन सतपालसिंहसत्ती इत्यनेन पृष्टस्य प्रश्नस्य उत्तरं ददाति स्म।
एषः प्रश्नः काङ्गड़ा- केन्द्रीयसहकारीवित्तकोषेण आनीतायाः एकसमयनिस्तारयोजनायाः विषये आसीत्। अस्य प्रतिक्रियारूपेण मुख्यमंत्रिणा सुखविन्दरसिंहसुक्खुना उक्तं यत् केसीसीवित्तकोषेण २०२२ तमे वर्षे एकसमयनिस्तारणयोजनायां ५४६१ प्रकरणानाम् निराकरणं कृतम्। अस्मिन् १९८ कोटिरूप्यकाणां ऋणराशिः, १५० कोटिरूप्यकाणां राशिः क्षमाकृता। तदनन्तरं वित्तकोषे ४४२० प्रकरणाः पिहिता: अभवन्। ११२ कोटिरूप्यकाणि दत्तानि सन्ति। अद्यापि १०४१ वित्तकोषसंख्यानां निस्तारणं कर्तव्यम् अस्ति। सतपालसत्ती इत्यनेन उक्तं यत् एतस्याः योजनायाः अभावेऽपि बहवः निर्धनाः, दुःखिताः च जनाः संपत्तिग्रहणस्य संकटं प्राप्नुवन्ति, ये केनचित् कारणेन ऋणं गृहीतवन्तः आसन्। एतेषां विषये राज्यसर्वकारेण सहानुभूतिपूर्वकं चिन्तनस्य आवश्यकता वर्तते। तस्य प्रतिक्रियारूपेण मुख्यमन्त्री उक्तवान् यत् पूर्वजयरामसर्वकारस्य समये एकसमयनिस्तारणस्य अन्तर्गतं १० लक्षरूप्यकाणाम् अधिकं मूल्यम् ऋणं गृहीतम्, परन्तु अधुना आवश्यकतायुतानां आसक्तितः उद्धाराय, तदर्थं च नूतनां योजनां आनेतुं सर्वकारः विचारयिष्यति एतत्, आरबीआई मार्गदर्शिकानुसारं तदनुसारं निर्णयः क्रियते।