KKSU Ramtek : कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये शोधप्रवेशपरीक्षायै (RET) आवेदनानि आमन्त्रितानि
कविकुलगुरुकालिदास संस्कृतविश्वविद्यालयः, रामटेकः 2024-25 सत्रस्य कृते विद्यावरीधि (पीएच. डी.) उपाधिं प्रवेशार्थं शोधप्रवेशपरीक्षा (RET) आयोजयिष्यति। शोधप्रवेशपरीक्षा विश्वविद्यालयानुदानायोगस्य, न्यूनतममानकानाम्, उपाधिविनियम-2024 पीएच. डी. उपाधिप्रक्रियायाः च आधारेण भविष्यति। शोधप्रवेशपरीक्षा संस्कृतभाषा तथा साहित्यं, शिक्षा, योगशास्त्रं, वेदाङ्गज्योतिषं, संस्कृतव्याकरणं, वेद: तथा दर्शनशास्त्रं, हिन्दू- अध्ययनं, कीर्तनशास्त्रं, नृत्यम् आदिषु विषयेषु 25 जनवरी 2025 तमे दिनांके आयोजिता भविष्यति। शोधप्रवेशपरीक्षाया: (RET) परीक्षाप्रपत्राणि विस्तृतसूचना च- https://kksanskrituni.digitaluniversity.ac/Content.aspx?ID=29562 इति विश्वविद्यालयस्य जालपुटे द्रष्टुं शक्यते। आवेदनपत्रं दातुम् अन्तिमातिथिः 5 जनवरी 2025 भविष्यति। अभ्यर्थिन: परीक्षाशुल्कं 1500/- ऑनलाइन लिङ्कद्वारा दातुं शक्नुवन्ति। ये आवेदकाः शोधप्रवेशपरीक्षायै (आरईटी कृते) २०२४ तमस्य वर्षस्य जुलैमासे आवेदनपत्रं प्रदत्तवन्तः तेषां पुनः आवेदनस्य आवश्यकता नास्ति।