सहस्रकोटि-रुप्यकाणां चलच्चित्रं दत्तवत: प्रभासेन सह संघर्षं करिष्यति सनी देओलः
वार्ताहर: – जगदीशडाभी (मुम्बई)
दक्षिणस्य नायक: प्रभासः अद्यैव कल्की २८९८ ई. इति चलच्चित्रे दर्शनं दतवान् । प्रभासस्य अस्य चलच्चित्रस्य प्रचण्डप्रतिक्रिया प्राप्ता । अस्य चलच्चित्रस्य बक्स् आफिस इत्यत्र सहस्राधिकं कोटिरूप्यकाणि अर्जितानि आसन् । अधुना बॉलीवुड-नायक: सन्नी देओलः सहस्रकोटि-रुप्यकाणां चलच्चित्रं दत्तवत: प्रभासेन सह संघर्षं कर्तुं गच्छति।
दक्षिणस्य नायक: प्रभासः अद्यकाले प्रणय-भयानक-हास्यश्च चलच्चित्रस्य ‘द राजा साब’ इत्यस्य कारणेन शीर्षकेषु अस्ति । प्रभासः विगतमासान् यावत् अस्य चलच्चित्रस्य चित्रोतलनं करोति । अधिकतया एक्शन्-चलच्चित्रेषु दृश्यमानः प्रभासः प्रथमवारं भयानक-हास्य-चलच्चित्रेण सह आगच्छति । अतः प्रशंसका: जिज्ञासुः भवन्ति।
प्रभासस्य अस्य चलच्चित्रस्य प्रदर्शनस्य तिथिः अपि घोषिता अस्ति । इदं प्रणयभयानकहास्यचलच्चित्रं २०२५ तमस्य वर्षस्य अप्रैलमासस्य १०-दिनाङ्के प्रदर्शितं भविष्यति । अधुना समाचारः आगच्छति यत् सनी देओलस्य ‘जाट’ चलच्चित्रम् अपि आगामिवर्षस्य एप्रिल-मासस्य १०-दिनाङ्के प्रदर्शितं भविष्यति। तस्य अर्थः अस्ति यत् आगामिवर्षे सनी देओल: प्रभास: इत्यनेन सह बक्स् आफिस इत्यत्र संघर्षं करिष्यति। सनी देओलस्य जाट इति एक्शन् चलच्चित्रम् अस्ति । अधुना एव अस्य चलच्चित्रस्य विज्ञापन पुटकं प्रदर्शितं जातम्। विज्ञापन दृष्ट्वा इदं दृश्यते यत् सनी चलच्चित्रे प्रचण्डं एक्शनं कुर्वन् दृश्यते। विज्ञापन इत्यनेन सह निर्मातारः अवदन् आसन् यत् आगामिवर्षस्य एप्रिलमासे एतत् चलच्चित्रं प्रदर्शितं भविष्यति। यद्यपि निर्मातारः तिथिं न प्रकाशितवन्तः। परन्तु जाट इत्यस्य प्रदर्शनम् एप्रिल-मासस्य १०-दिनाङ्के भविष्यति इति कथ्यते । एप्रिल-मासस्य १० दिनाङ्के प्रभासस्य द राजा साब इति चलच्चित्रस्य सनी देओलस्य जाट चलच्चित्रस्य च मध्ये संघर्षः भविष्यति ।