HP Politics : आयुष: तथा युवाक्रीडासेवामन्त्रिण: यादविन्द्रगोमावर्यस्य विपक्षाय आह्वानम्
हिमसंस्कृतवार्ता: – धर्मशाला।
आयुषः युवाक्रीडासेवामन्त्री यादविन्द्रगोमा उक्तवान् यत् काङ्ग्रेससर्वकारेण राज्यस्य जनानां कृते दत्तासु निर्वाचनप्रतिश्रुतिषु पञ्चप्रतिज्ञा: केवलं १५ मासेषु एव पूर्णाः कृताः। विपक्षपक्षाय महदाह्वानम् दत्त्वा मन्त्री उक्तवान् यत् भाजपा आरोपं प्रत्यारोपं च कर्तुं स्थाने सदने भ्रष्टाचारविषये चर्चाम् आनयेत्, तदा एव ज्ञास्यते यत् कः सत्यम्, कः मृषावादी च। सः अवदत् यत् यदा-यदा केन्द्रे हिमाचलपक्षं प्रस्तोतुं आगच्छति तदा-तदा भाजपा सदनात् बहिः गच्छति। सः अवदत् यत् वयं सर्वकारस्य अवशिष्टा: प्रतिज्ञा: पूरयितुं पूर्णनिश्चयेन कार्यं कुर्मः। सः अवदत् यत् २०२७ तमवर्षपर्यन्तं हिमाचलप्रदेशः स्वावलम्बी, २०३२ तमवर्षपर्यन्तं देशस्य समृद्धतमं राज्यं भवेत् इति अस्माकं संकल्पः अस्ति।
नीतिपरिवर्तनं कृत्वा अतिरिक्तराजस्वं अर्जयितुं सर्वकारः सफलः अभवत् । आबकारीनीतिपरिवर्तनस्य कारणात् गतवित्तीयवर्षे २६३१ कोटिरूप्यकाणां राजस्वं प्राप्तम् । वयं मद्यापणानां निविदाम् आरब्धवन्तः, येन गतवर्षे राज्ये ४८५ कोटिरूप्यकाणां राजस्वं प्राप्तम्। सः अवदत् यत् व्यवस्थायां परिवर्तनद्वारा हिमाचलप्रदेशः आत्मनिर्भरः क्रियते। केन्द्रीयविश्वविद्यालयस्य धर्मशालापरिसरस्य कृते ३० कोटिरूप्यकाणां राशिं निक्षेपयितुं सर्वकारः प्रपत्रप्रक्रियायाः माध्यमेन गच्छति इति मन्त्री गोमा अवदत्। एषा प्रक्रिया समाप्ता भविष्यति, मार्चमासपर्यन्तं कार्यं आरभ्यते।