CM Sukhu : अतिथिशिक्षक-नीतौ किमुक्तवान् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः ?
हिमसंस्कृतवार्ता: – शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः शिक्षाविभागस्य सभायाः अध्यक्षतां कुर्वन् संवैधानिकमूल्यानां सम्बद्धसामग्री विद्यालयानां पाठ्यक्रमे समाविष्टा भविष्यति इति अवदत्। सः अवदत् यत् राज्यसर्वकारः छात्राणां गुणात्मकशिक्षायाः सङ्गमेन तेषां सर्वतोमुखविकासाय विशेषप्राथमिकतां ददाति तथा च तेषां कर्तव्यदायित्वविषये शिक्षयति।
६-६ विद्यालया: सर्वाभि: आवश्यकसुविधाभि: सुसज्जिताः भविष्यन्ति
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् राज्यस्य प्रत्येकस्मिन् विधानसभाक्षेत्रे ६-६ विद्यालयाः सर्वाभि: आवश्यकसुविधाभिः सुसज्जिताः भविष्यन्ति। एतेषु पर्याप्ताः कर्मचारिण:, पुस्तकालया:, प्रयोगशालाः इत्यादयः सुविधाः उपलप्स्यन्ते। एतेषां विद्यालयानां स्थापनायै सर्वा: औपचारिकता: समये एव सम्पन्नं कर्तुं अधिकारिभ्यः निर्देशं दत्तवान् । तेषां प्रशासनिकनियन्त्रणस्य मापदण्डाः अपि सज्जीकर्तुं सः आह । एतेषां सर्वेषां विद्यालयानां माध्यमेन सशक्ता आधारभूतसंरचना विकसिता भविष्यति इति सः अवदत्।
अवकाशस्य सूचना उपनिदेशकस्य कार्यालयं प्रति प्रेषयितव्या भविष्यति
सः अवदत् यत् सर्वेषां विद्यालयानां कृते वर्षे पूर्णे क्रियाकलापानाम् एकं पञ्चाङ्गं निर्मितं भविष्यति, यस्मिन् प्रत्येकस्य दिवसस्य शैक्षणिक-आदि-क्रियाकलापानाम् विवरणं भविष्यति। मुख्यमन्त्री उक्तवान् यत् व्यवस्थायाः परिवर्तनस्य उद्देश्यं कृत्वा शिक्षाविभागे युक्तिकरणप्रक्रियायाः कार्यं बृहत्प्रमाणेन क्रियते। अस्य अन्तर्गतं आधारभूतसंरचनानां सुदृढीकरणेन सह शिक्षकानां परिनियोजनेन च सम्बद्धाः सकारात्मकाः नवीनाः च उपायाः क्रियन्ते। सः अवदत् यत् विद्यालयस्य मुख्याध्यापकः प्रधानाचार्यश्च नियमितरूपेण अवकाशं गच्छतां शिक्षकानां विषये सूचनां उपनिदेशकस्य कार्यालयं प्रति प्रेषयितुं प्रवृत्ताः भविष्यन्ति। एतेन विद्यालयेषु शिक्षकानां उपस्थितिः सुनिश्चित्य साहाय्यं भविष्यति।
अतिथिशिक्षकनीतिविषये मुख्यमंत्रिण: कथनम्
अतिथिशिक्षकनीतिविषये चर्चां कुर्वन् मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः उक्तवान् यत् एषा नीतिः शिक्षण-अध्ययन-प्रक्रियायां निरन्तरताम् स्थापयितुं साहाय्यं करिष्यति। यदि शैक्षणिकसंस्थायाः नियमितशिक्षकः अवकाशं गच्छति तर्हि योग्यशिक्षकाणां सेवा गृहीता भविष्यति। अनेन बालशिक्षायां बाधा न भविष्यति। मुख्यमन्त्री उक्तवान् यत् उच्चशिक्षाव्यवस्थां सुदृढां कर्तुं महाविद्यालयेषु अपि युक्तिकरणप्रक्रिया स्वीक्रियते। महाविद्यालयेषु नूतनविषयाणां समावेशेन सह तेषां युक्तिकरणमपि क्रियते। गोष्ठ्यां शिक्षामंत्री रोहितठाकुर:, शिक्षासचिव: राकेशकंवर:, मुख्यमंत्रिण: विशेषकर्तव्याधिकारी गोपाल: शर्मा, प्रारम्भिक शिक्षानिदेशक: आशीष: कोहली, उच्चतरशिक्षानिदेशक: डॉ अमरजीत: शर्मा अन्ये वरिष्ठाधिकारिण: च उपस्थिता: अभवन् ।