असमस्थे विश्वनाथे संस्कृतभारतीविश्वनाथः शाखायाः गीता जयन्ती आचरणम्
वार्ताहर: – जगदीशडाभी (असमराज्यात्)
गीता जयन्ती परह्यः दिनाङ्क: 14/12/24 शनिवासरे शंकरदेव शिशु निकेतने गमिरि” इति स्थाने संस्कृत भारती विश्वनाथः गीता जयन्ती आचरति तत्र अध्यक्षःसंस्कृतभारती विश्वनाथस्य उपाध्यक्षः श्री विनोद दवाडी महोदयः, विशिष्टातिथिः आसीत् राकाचन्द्र संस्कृत टोलस्य पूर्वप्रध्यापकः श्रीमान् तुलसीराम उपाध्यायः, अतिथिः ए.सी. ए. कनिष्ठ महाविद्यालयस्य पूर्वाध्यक्षः श्रीमान् चूणामणि दाहालःमहोदयः, ईशान क्षेत्रस्य सहमन्त्री राजेन आचार्य महोदयः, सिक्किमस्थ महाविद्यालयस्य अध्यापकः श्रीमान् केशव पोखेलश्चासीत् । दीपप्रज्वालकः निकेतनस्य प्रधनाचार्यः श्रीमान् नारायण आचार्य करोति, सञ्चालकस्य कार्यं निर्वहति संस्कृतभारती विश्वनाथशाखायाः मन्त्री नारायण अधिकारी । अध्यक्षविशिष्टातिथीनां आसन ग्रहणात् परं तेषां सम्माननं ततः परं मंगलाचरणम् विद्यालयस्य छात्राःकुर्वन्ति । स्वागतभाषणं सञ्चालकः स्वयं करोति । गीता द्वादशाध्यायस्य कण्ठस्थ प्रतियोगिता जाता यत्र प्रायः ५० छात्राः भागं गृहीतवन्तः । तस्यां प्रथमा ओजश्वी देवी, द्वितीयः- 4 चत्वारः छात्राः, तृतीयः चत्वारः छात्राः, सान्त्वना एका छात्रा च भवति । का नाम गीता तस्याः का वा उपयोगिता इत्यादिः स्ववाण्या उपदिशति विशिष्टातिथिः। कैशवमहोदयः परब्रह्मणः प्राप्ति कथमिति विषये अवबोधयति । ततः परं चूणमणि महोदयः प्रत्येकस्याध्यायस्यास्माकं जीवने का वा उपयोगिता इत्यस्मिन् विषये विषदी करोति । पुरस्कारवितरणात् परं नारायण आचार्य: महोदयः धन्यवादार्पणं करोति ततः परं चाय पानादिक कृत्वा शान्ति मन्त्र द्वारा सभा समाप्तिर्याति । तथैव बुरोईघाटस्थ गानुग्रामे, गहपूरे, समरदलनि इत्यादिषु स्थानेष्वपि गीताजयन्ती नगरसमीत्या ग्रामसमीत्या च यथा सम्भवम् आचरणं जातम्।
जयतु
शानदार सृजन