CM Sukhu : नालागढ विधानसभाक्षेत्राय ३१ कोटिरूप्यकाणां परियोजनाः उपहाररूपेण दत्तवान् मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता: – नालागढ़म्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः रविवासरे नालागढ-विधानसभाक्षेत्रे ३१ कोटिरूप्यकाणां विविधपरियोजनानां उद्घाटनानि शिलान्यासान् च अकरोत्। मुख्यमन्त्री मित्तियां, बेहली, खल्लर, परिसरेषु च ७.२४ कोटिरूप्यकाणां व्ययेन निर्मितस्य पेयजलयोजनायाः उद्घाटनं कृतवान् । सः नालागढस्य कृते ५.२२ कोटिरूप्यकाणां व्ययेन निर्मितानाम् सप्त ट्यूबकूपानां, ४.८२ कोटिरूप्यकाणां व्ययेन नालागढस्य विभिन्नेषु क्षेत्रेषु पेयजलयोजनानां उन्नयनपरियोजनानां च उद्घाटनं कृतवान्।
मुख्यमन्त्री सुक्खुः ५.७७ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य कोटला कलां सेतो:, ४.४४ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य रेतारखड्डसेतो:, ३.५१ कोटिरूप्यकाणां व्ययेन निर्माणाधीनस्य भटौली खड्डसेतो: च इत्यादीनि त्रयाणां सेतुनां शिलान्यासः अपि अकरोत् ३.५१ कोटिरूप्यकाणि । नालागढविधानसभाक्षेत्रस्य विकासाय राज्यसर्वकारस्य प्रतिबद्धतां पुनः उक्त्वा मुख्यमन्त्री अवदत् यत् अत्र विकासाय संसाधनानाम् अभावः न भविष्यति।
सः अवदत् यत् वर्तमानसर्वकारः सम्पूर्णे राज्ये समानविकासाय प्राथमिकताम् ददाति तथा च जनानां हिताय सर्वप्रयत्नाः क्रियन्ते। मुख्यमंत्री सुखविंदरसिंहसुक्खु: जिलारेडक्रॉससंस्थायै दानकृतानि द्वे एम्बुलेन्सयानानि हरितध्वजं प्रदर्श्य प्रेषितवान्। सः दातृॄणां उदारयोगदानस्य कृते हृदयेन कृतज्ञतां प्रकटितवान्, अस्य उदात्तकार्यस्य कृते तेषां सम्मानं च कृतवान् ।
एतासां परियोजनानां कृते कृतज्ञतां प्रकटयन् नालागढस्य विधायकः हरदीपबावा मुख्यमन्त्रिण: नालागढस्य जनानां प्रति विशेषः स्नेहं धारयति इति अवदत्।