CM Sukhu : मुख्यमंत्री सुक्खु: आदिष्टवान्, डोडराक्वारं जिलापरिषदक्षेत्रम् अधिसूचितं कुर्यात् विभाग:
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः रोहड़ूक्षेत्रस्य दुर्गमक्षेत्रं डोडरा- क्वारम्-इत्येतत् पृथक् जिलापरिषदक्षेत्रं कर्तुं अधिसूचना करणस्य आदेशं कृतवान्। अस्मिन् संदर्भे पंचायतीराजसचिव: शीघ्रमेव अधिसूचनां प्रसारयितुं प्रक्रियाम् आरब्धवान् । अस्य विषये एकदिनद्वयेन वा सूचना निर्गन्तुं शक्यते। मुख्यमन्त्री डोडरा- क्वारस्य भ्रमणकाले एव एतत् घोषितवान् आसीत् । डोडराक्वार् इत्यस्य अनन्तरं शुक्रवासरे मुख्यमन्त्री सर्वकार: ग्रामस्य द्वारकार्यक्रमस्य अन्तर्गतं अन्यं दुर्गमक्षेत्रं कुपवीनगरं गतः।