पालिताना-महिलामहाविद्यालये संस्कृतगौरवपरीक्षा सम्पादिता
वार्ताहर: – जगदीशडाभी
(अहमदाबाद-गुजरातम्)
संस्कृतभारती, सौराष्ट्रप्रान्तद्वारा प्रतिवर्षं श्रीमती पी.एन.आर. महाविद्यालये संस्कृतगौरवपरीक्षा 7 दिसम्बर, 2024 दिनाङ्के आयोजिता। केन्द्रीयसंयोजकः श्री डॉ. पंकजत्रिवेदिवर्यः छात्रेभ्य: शुभकामना: प्रदत्तवान् । तस्य मार्गदर्शने शान्तिपूर्वकं परीक्षा आयोजिता । संस्कृतकेन्द्रस्य शिक्षकः श्री अमरसिंह राठोडः, नगरसंयोजिका कृपाली कामलिया, साप्ताहिकसंयोजिका दिलशादबेन पाटडिया, बालकेन्द्रस्यसंयोजिका मायाबेन बोरीचा, संस्कृतछात्रे दर्शना चौहान, मयूरी सोण्डागर एतै :गौरवपरीक्षायाः आयोजनं कारितम् । सौराष्ट्रप्रान्ते प्रतिवर्षं डिसेम्बरमासे एतस्याः परीक्षायाः आयोजनं करोति यत् सर्वभाषाजनानाम् मध्ये संस्कृतस्य महत्त्वं दर्शयति। प्रवेशिकायां २६७, प्रदीपिकायां ८७, प्रमोदिकायां ६२, प्रविकायां ३३ छात्राः कुलम् ४४९ छात्राः संस्कृतगौरवपरीक्षां लिखित्वा सरलसंस्कृतं लेखितुं, पठितुं, सरलं संस्कृतं वक्तुं शिक्षितुं रुचिं च प्रदर्शितवन्तः। प्रतिवर्षं छात्राः वर्धन्ते। पलिताना-नगरस्य विभिन्नानां विद्यालयानां छात्राध्यापकाः, नगरवासिनः, वृद्धाः अपि एतां परीक्षां दातुं जागरूकताम् उत्थापितवन्तः। आगामिवर्षेषु अपि संस्कृतस्य प्रसारस्य प्रचारार्थं ४ अभियानं गृहीतम् । समग्रतया छात्राः स्वसन्तुष्टिं प्रकटितवन्तः।