HP NEWS : हिमाचले २२ उद्योगाः अनुमोदिताः, ९२१ जना: जीविकां प्राप्स्यन्ति
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे औद्योगिकविकासयोजनायाः अन्तर्गतं राज्यस्तरीयसमित्या उद्योगाः, संयंत्राणि, यन्त्राणि च स्थापयितुं २२ आवेदनानि अनुमोदितानि सन्ति। अस्मिन् संयंत्रेषु यन्त्रेषु च १३२.१२ कोटिरूप्यकाणां निवेशः भविष्यति, ९२१ जनाः च रोजगारं प्राप्स्यन्ति। औद्योगिकविकासयोजनायाः अन्तर्गतं बुधवासरे प्रधानसचिवस्य (उद्योगस्य) आरडीनजीमस्य अध्यक्षतायां गोष्ठ्यां उक्तं यत् योजना तेषु एककेषु प्रयोज्या अस्ति, येषां स्थापना २०१७ तमस्य वर्षस्य अप्रैल-मासस्य प्रथमदिनात् २०२२ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं वा पर्याप्तरूपेण विस्तारिता अस्ति वा। आर. डी. नजीमः अवदत् यत् एतेषु प्रकरणेषु कुलसहायताराशिः २१.४० कोटिरूप्यकाणि इति अनुमानितम् अस्ति। एते प्रकरणाः शीघ्रमेव धनप्रदानार्थं केन्द्रसर्वकाराय प्रेषिताः भविष्यन्ति। सः अवदत् यत् अस्याः योजनायाः अन्तर्गतम् औद्योगिक-एककानां कृते प्लाण्ट-यन्त्रेषु निवेशार्थं ३० प्रतिशतं दरेण केन्द्रीय-पूञ्जीनिवेश- प्रोत्साहनं प्रदत्तं भविष्यति, यस्य उच्चसीमा ५ कोटिरूप्यकाणां भवति। गोष्ठ्यां उद्योगनिदेशक: डॉ. युनुस:, प्रबंधनिदेशक: एचपीएसआईडीसी राजेश्वरगोयल:, राज्यस्तरीय- बैंकर- समिति: संयोजक:, पर्यटनं, वित्त एवं उद्योगविभागस्य अन्ये वरिष्ठाधिकारिण: उपस्थिता अभवन्।