Bhanupali Bilaspur Railway Line : पञ्चसहस्रकोटिः वर्धयितुं शक्यते भानुपल्ली- बिलासपुर- रेलमार्गस्य व्ययराशि:
हिमसंस्कृतवार्ता:- डॉ पद्मनाभ: , बिलासपुरम्।
भानुपल्ली- बिलासपुर- रेलमार्ग- परियोजनायाः अनुमानितव्ययः पञ्चसहस्रकोटिरूप्यकाणि वर्धयितुं शक्यते। निर्माणसामग्रीणां मूल्यवृद्धिः, परियोजनायाः संरेखने (अलाइनमेंट) सम्भाव्यम् परिवर्तनं, च नूतन-अवश्यकतानां संयोगः मुख्यकारणानि इत्युक्तम्। रेलवेविकासनिगमेण (आरवीएनएल) परियोजनायाः संशोधितं मूल्यांकनं (रिवाइज्ड एस्टीमेट) सिद्धीकृत्य केन्द्र- रेलमन्त्रालयाय स्वीकृत्यर्थं प्रेषितम्। कियत् धनं स्वीकरिष्यते इति मन्त्रालयस्य निर्णयोपरि वर्तते। एषः द्वितीयः प्रसंगः यदा आरवीएनएल-संस्थया केन्द्रं प्रति संशोधितं मूल्यांकनं प्रेषितम्।
परियोजनायाः इतिहासः
अप्रैल २०१५ तमे यदा परियोजना आरब्धा, तदा अनुमानितव्ययः चतुर्सहस्रकोटिरूप्यकाणि आसीत्। २०१९ तमे वर्षे पुनः संशोधितमूल्यांकनं केन्द्रं प्रति प्रेषितम्, यत्र व्ययः चतुर्सहस्रकोटिभ्यः सप्तसहस्रकोटिरूप्यकाणि पर्यन्तं वर्धितः।
संशोधितमूल्यांकनस्य कारणानि
आर. वी. एन. एल. अधिकृतानां मानकानुसारं संशोधितमूल्यांकनं द्वाभ्याम् कारणाभ्यां सिद्ध्यते। प्रथमं, निर्माणसामग्रीणां मूल्यवृद्धिः। द्वितीयं, परियोजनायाः संरेखने सम्भाव्यं परिवर्तनं च नूतन- अवश्यकतानां संयोगः।
एतेषाम् अतिरिक्तं, निर्माणकालीन- नूतन- तन्त्रज्ञानं, सुरक्षामानकानि, संरचनात्मक- आवश्यकताः च वर्धनं कुर्वन्ति। पर्वतीय-प्रदेशेषु भूमेः स्थिति:, नदी-वनानां मार्गे निर्माणकार्ये कठिनताः च व्ययं वर्धयन्ति।
वर्तमानस्थिति:-
अधिकारिणः वदन्ति, यदा परियोजनायाः प्रारम्भे अनुमानं क्रियते, तदा कन्दरानिर्माणे व्ययं ज्ञातुं कठिनं भवति। कार्यारम्भानन्तरं स्थितिः स्पष्टं भवति, यतः मूल्यांकनं परिवर्तितुम् आवश्यकं भवति। भानुपल्ली-बिलासपुर-रेलमार्गस्य कार्यम् अप्रैल २०१५ तमे वर्षे आरभत्। अधुना सप्तकिलोमीटरयावत् कार्यं पूर्णं जातम्। ५२ किमीमार्गे पथिकास्थापनेः लक्ष्यं २०२५ वर्षे पर्वतकाले समाप्तिं यास्यति। बैरीपर्यन्तं ११ किमीमार्गे भूमेः अधिग्रहणं कार्यं च अवशिष्टम् अस्ति।