यदा पुत्री सुविधा न प्राप्तवती तदा IIT Mandi प्राध्यापकः न्यूनमुल्ययुतं सचलं सद्यप्रसूतसघन- परिचर्या- एककं निर्मितवान्
हिमसंस्कृतवार्ता:- मण्डी ।
भारतीय- प्रौद्योगिकी- संस्थानस्य (आईआईटी) मण्डीस्थिते एकस्मिन् सहायकाचार्येण नवजातशिशूनां तेषां च पालकानां पीडां ज्ञात्वा एकं सुलभं च आधुनिकसुविधायुक्तं चलनशीलं नवजातशिशु- इनक्यूबेटरं (नवजातशिशु- गहन- देखभाल- इकाई) निर्मितम्।
सहायकप्राध्यापकः डॉ. गजेन्द्रसिंहः वर्षे 2023 तमे पिता अभवत्। तस्य नवजातपुत्र्या: संक्रमणं जातम्। स्थानीये स्तरमध्ये चलनशीलं नवजातशिशु- इनक्यूबेटरं सुलभं नासीत्। तस्मिन् सन्दर्भे चण्डीगढ़तः एषा सुविधा एम्बुलेंसद्वारा प्रेषितुं प्रवृत्तः। तत्र च 12-14 होरां यावत् प्रतीक्षा कृता। एतेषां दुःखानाम् अनुभवेन ते चलनशीलं नवजातशिशु-इनक्यूबेटरं निर्मातुम् आरब्धवन्तः।
एवमेव एतस्य उपकरणस्य निर्माणप्रक्रिया आरब्धा। एकस्मिन् वर्षे डिजाइन-प्रैक्टिकमादारभ्य एषः मॉडलः अद्य स्टार्टअपरूपेण परिवर्तितः। उपकरणं निर्मातुं एका कम्पनी अपि सहयोगं ददाति। आगामि एकस्मिन् द्वयो: वा वर्षयो एषः विक्रयाय उपलब्धः भविष्यति। एतत् उपकरणम् आधारभूत- मॉडलरूपेण त्रिलक्षरुप्यकाणां मूल्ये, सर्वसुविधायुक्तम् उपकरणम् अष्टलक्षरुप्यकाणां मूल्ये विक्रयाय भविष्यति। पूर्वं एतदोपकरणं महतामूल्येन उपलभ्यते स्म।
एनआईसीयू सुविधाः
एनआईसीयू उपकरणे विविधाः आधुनिकसुविधाः संलग्नाः। एषः उपकरणे स्थितस्य शिशोः पर्यवेक्षणं देशे विदेशे च स्थिताः चिकित्सकाः स्मार्टरीत्या कुर्वन्ति। एतदर्थं च एकः चित्रक: (कैमरा) स्थापितः अस्ति। एतेन चिकित्सकाः शिशुं निरीक्षितुं शक्नुवन्ति। एतस्य सहायतया एतत् सर्वं सम्भवम्। ऑक्सिजनसिलिण्डरं विद्युत्कोष: च स्थापिते। विद्युत्कोषेन सहाय्येन एषः उपकरणं मण्डीस्थलेन चण्डीगढं यावत् नेष्यते। वॉर्मरम् इनक्यूबेटरं च उभे सुविधे उपकरणे विदे।
दुर्गमक्षेत्रेषु उपयोगः
हिमाचलप्रदेशस्य दुर्गमक्षेत्रेषु एषः चलनशीलः निकू इति (एनआईसीयू) अतीवलाभदायकः भविष्यति। दुर्गमक्षेत्रेषु वाहनव्यवस्थायाः स्वास्थ्यसेवायाः च कठिनताः भवन्ति। अतः एषः चलनशीलः निकू इति सुलभं सन्देशयितुं शक्यते। तस्य सुविधाभिः चिकित्सकाः अपि ऑनलाइनरूपेण संयोक्तुं शक्नुवन्ति। अतः गृहद्वारे सेवायाः सम्भावना सुलभाभविष्यति।