HRTC : २५० डीज़लबसयानानि क्रेष्यति हिमाचलपथपरिवहननिगमः – मुकेश: अग्निहोत्री
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशपथपरिवहननिगमः २५० डीजलबसयानानां क्रयणं करिष्यति। निगमः अस्मिन् मासे एतानि बसयानानि प्राप्स्यति, येषां कृते शीघ्रं कार्यं कर्तुं कथितम् अस्ति। उपमुख्यमन्त्री मुकेश अग्रिहोत्री इत्यनेन सोमवासरे घोषितं यत् २५० डीजलबसयानानां क्रयणार्थं सर्वकारेण अनुमोदनं कृतम्। ढलीबसस्थानकस्य उद्घाटनस्य अवसरे मीडियासमीपं वदन् मुकेश अग्रिहोत्री उक्तवान् यत् एचआरटीसी विद्युत्बसक्रयणं करिष्यति परन्तु तत्र किञ्चित् समयः भवति। एतादृशे सति अस्मिन् मासे २५० डीजलबसयानानि क्रेतुं सर्वकारेण अनुमोदनं दत्तम्। एतेषां बसयानानां सद्यः व्यवस्थापनं करणीयम् इति निर्णयः कृतः अस्ति। एतानि बसयानानि ३६ वा ३७ वा आसनयुतानि भविष्यन्ति। मुकेश अग्रिहोत्री इत्यनेन उक्तं यत् ३२७ विद्युत्बसयानानि क्रेतव्यानि सन्ति येषां निविदा कृता अस्ति। किञ्चित् समयं गृह्णाति किन्तु शीघ्रमेव सम्पूर्णे राज्ये विद्युत्बसयानानि दृश्यन्ते। सः अवदत् यत् एतस्मिन् समये राज्ये बसयानानां महती आवश्यकता अस्ति, अतः अधुना २५० डीजलबसयानानि क्रीयन्ते। एतदतिरिक्तं १०० लघु- मध्यम- बसयानानि अपि गृहीतानि भविष्यन्ति। ये टेम्पो ट्रैवलर प्रकारस्य सन्ति। एतादृशेषु स्थानेषु यत्र बृहत् बसयानानि गन्तुं न शक्नुवन्ति तत्र टेम्पो ट्रैवलर चालितं भविष्यति।