प्रधानमन्त्री नरेन्द्रमोदी अखिलभारतीयमहानिदेशकपुलिसमहानिरीक्षकसम्मेलनं सम्बोधितवान्
हिमसंस्कृतवार्ताः। भुवनेश्वरे आयोजितस्य अखिलभारतीयमहानिदेशकपुलिसमहानिरीक्षकसम्मेलनस्य अन्तिमदिने प्रधानमन्त्री नरेन्द्रमोदी देशस्य विभिन्नराज्यैः केन्द्रशासकप्रदेशैः च सम्बद्धेषु महत्त्वपूर्णसुरक्षाविषयेषु चर्चां कृतवान्। मुख्यतया साइबर-अपराधस्य, तटीयसुरक्षायाः, माओवादी-विद्रोहस्य च विषये विचारः कृतः । सम्मेलने केन्द्रीय गृहमन्त्री अमितशाहः, गृहसचिवः गोविन्दमोहनः, राष्ट्रियसुरक्षासल्लाहकारः अजीत डोवालः अपि उपस्थिताः आसन् । सम्मेलनं राष्ट्रियसुरक्षासम्बद्धानां विविधानां विषयाणां निवारणाय सामरिकपरिपाटनेषु केन्द्रितम् अस्ति। एतेषु कृत्रिमबुद्धिः, ड्रोन् इत्यादीनां उदयमानप्रौद्योगिकीनां, शीर्षपुलिसपदाधिकारिभिः सह आतङ्कवादविरोधीरणनीतयः, विभिन्नसुरक्षासंस्थानां प्रमुखाः च सन्ति प्रधानमन्त्री प्रमुखाः अधिकारिणः च पुलिसस्य सम्मुखे ये विविधाः परिचालनात्मकाः आधारभूतसंरचनासम्बद्धाः च विषयाः सन्ति तेषां विषये चर्चां कृतम्।
सभायां मादकद्रव्यादिमहत्त्वपूर्णविषयेषु चर्चा अभवत्। अस्मिन् सम्मेलने परह्यः वामपक्षीयनक्सलसमस्यायाः विषये चर्चा अभवत्।
प्रधानमन्त्री नरेन्द्रमोदी अखिलभारतीयमहानिदेशकपुलिसमहानिरीक्षकसम्मेलनं सम्बोधितवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment