HP NEWS : बद्दीस्थे कर्मचारी-भविष्यनिधिकार्यालये सीबीआई-संस्थाया: निरीक्षणम्, उत्कोचग्रहणस्य आरोपेण क्षेत्रीय आयुक्तसहिताः त्रयः गृहीताः
हिमसंस्कृतवार्ता: – बद्दी, सोलनम्।
कर्मचारी-भविष्यनिधि (ईपीएफओ) कार्यालये बद्दी- सोलन इत्यस्मिन् भ्रष्टाचारप्रकरणे केन्द्रीय-अन्वेषण ब्यूरो सीबीआइ इत्यनेन च महती कार्यविधि: कृता। केन्द्रीय-अन्वेषण ब्यूरो इत्यनेन क्षेत्रीयपीएफ आयुक्तः, प्रवर्तनपदाधिकारी, एकः परामर्शक: (निजीव्यक्तिः) च समाविष्टाः त्रयः आरोपिणः गृहीताः। एतेषां विरुद्धं उपालम्भे १० लक्षरूप्यकाणाम् उत्कोचग्रहणस्य आग्रहः कृतः इति आरोपः अस्ति । सीबीआइ इत्यनेन नवम्बर् २४ दिनाङ्के आरोपितद्वयस्य विरुद्धं प्रकरणं पञ्जीकृतम् आसीत्।
आरोपः अस्ति यत् अभियुक्तप्रवर्तनपदाधिकारिणा उपालम्भकर्तु: संस्थानस्य पीएफयाचनाप्रकरणस्य निराकरणाय उत्कोचस्य आग्रहः कृतः आसीत् यत् ईपीएफओ-कार्यालये बद्दी इत्यत्र लम्बितम् आसीत्। यदि धनं न दीयते तर्हि ४५-५० लक्षरूप्यकाणि दातव्यानि भवेयुः। उपालम्भकर्ता अस्य सूचना सीबीआइ इत्यस्मै अददत्। तदनन्तरं केन्द्रीयान्वेषणसंस्था जालं स्थापयित्वा उत्कोचराशिं गृह्णन् तं रक्तहस्तेन गृहीतवती। सीबीआइ इत्यनेन त्रयः अपि आरोपिणः गृहीताः। किञ्चित्कालानन्तरं विशेषन्यायालये तेषां प्रस्तुतीकरणं कृत्वा तेषां प्रतिप्रेषणं (रिमाण्ड्) याच्यते।